________________
सम्मति० काम , पा० १४
३०७ मोत्पत्तः पटकाले तन्तुप्रतीतिर्न स्यात् , नष्टस्यातीतवदग्रहणादिति वाग्यम् , यत्र पटस्य समुदिततत्तसन्त्ववयवास्ततो विभक्तास्तत्र समुदयविमागलक्षणपटविनाशस्य पटारमकप्रतियोगिप्रतीतिविरोधित्वेऽपि यत्र विभक्तानां तन्तूनां या संयुक्तावस्था तद्रपपटात्मकार्थान्तरमावलक्षणविनाशस्तेषां तत्र विभक्ततया तन्तूनां विनाशेऽपि संयुक्ततया तेषामविनाशासदप प्रतियोगिप्रतीत्यविरोधित्वाद , पटकाले तन्तुप्रतीतिमावाद , एवं मृत्पिण्डस्य विनाशो घट. रूपार्थान्तरमावलक्षणो विज्ञेयः। न चैवं तह तद्विनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिः, पूर्वोत्तरावस्ययोस्स्वभावतोऽसङ्कीर्णत्वात् , वर्तमानकालावच्छिमवस्त्वन्तररूपेऽतीतकालावच्छिन्नरस्त्वन्तरस्यापादयितुमशक्यत्वात् , अतीतस्य च वर्तमानत्वायोगात् । न च "आगाप्लाईगाणं तिण्हं परपञ्चओ नियमा" इत्युक्त्याऽऽकाशादित्रयाणामुत्पादव्यययोः परनिमित्त. कत्वातावौपचारिको स्यातामिति वाच्यम् , “ उप्पजेह वा धुवेइ वा विगमेह वा " इति त्रिपद्या भगवतोत्पादादित्रयात्मकतया जगत्स्वरूपमविशिष्टमेवोक्तमिति परमार्थभूतोत्पाद. व्ययशून्यं ध्रौव्यं न च कुत्रापि सम्भवतीति यत्र परमार्थभूतं ध्रौव्यं तत्र नियमेन पारमा र्थिकावुत्पादव्ययो, यथा पुद्गलजीवयो, परमार्थभृतं धौव्यश्चाकाशादिषु त्रिविति तत्रापि नियमेन पारमार्थिको तात्रभ्युपगन्तव्यौ, अन्यथा त्रिपद्या प्रतिपादितं यदुत्पद्यते यद्व्येति यञ्च ध्रुवं तत्सदिति सल्लक्षणं सिद्धं न स्यात् , सदात्मकलक्ष्यैकदेशे आकाशादावेव तदसगाते, सत्रोत्पादव्यययोरौपचारिकत्वेनासद्पत्वेन भवताऽभ्युपगमात् । अथोपचारो व्यवहारमूलक इति तत्सिद्धौ तौ तत्रेति चेद्, व्यवहारः प्रामाणिकोप्रामाणिको वा, आधश्चेत्तोऽनायासेन तौ पारमार्थिको सिद्धौ, प्रामाणिकव्यवहारस्यागममूलकत्वात् । द्वितीये सल्लक्षणमाकाशादा. वव्याप्तं स्यात् , तस्माद् व्यवहारतो नित्यस्याकाशादेरनित्यस्य च प्रदीपादेः स्याद्वादशैल्या द्रव्यार्थिकपर्यायार्थिकनयापेक्षया कथश्चिन्नित्यानित्यतयैव सिद्धस्तदपेक्षया वस्तुमात्रं पारमा. थिकोत्पादव्ययध्रौव्ययुक्ततयैव सदित्याकाशादित्रयमपि तदूपतयैव सदिति व्यवस्थितम् । स्थितिश्चाविचलितस्वभावरूपत्वाम विभक्ता शास्त्रकारेणेति ।। ३४ ॥ __ अथाऽत्रोत्पादव्ययस्थितयः किं मिनकाला अभिनकालाश्च सन्ति न वेति चेत्, सन्तीति नमः। तथाहि-एकप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पादव्ययस्थितीनां भिन्नकालता, यथा घटोत्पादसमये घटविशिष्टमृदुत्पादसमये वा न तद्वि. नाशः, अनुत्पत्तिप्रसक्तेः। नापि घटविनाशसमये घटविशिष्टमृद्विनाशसमये वा तदुत्पत्तिः, अविनाशप्रसक्तेः। न च तत्प्रादुर्भावसमय एव तत्स्थितिः, तद्रूपेणावस्थितस्यानवस्थाप्रसत्या प्रादुर्भावाऽयोगात् । अतो द्रव्यादर्थान्तरभूतास्ताः, भिन्नकालत्वेन नानास्वभावानों तासामेकद्रव्यरूपत्वाऽयोगात् । भिन्न प्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वाऽभिन्नकालता तासां, यथा कुशूलतद्विशिष्टमुन्नाशघटतद्विशिष्टमृदुत्पाद-मृत्स्थितीनाम् । अतो द्रव्यादनन्तरभूतास्ता, अमिनकालत्वेनैकरूपत्वादिति प्रतिपादनायाह
"Aho Shrutgyanam"