________________
१०८
doda
तिष्णि वि उत्पाबाई, अभिन्नकाला य भिन्नकाला य । अत्यंतरं अनत्थंतरं च, दवियाहि णायव्था ॥ ३५ ॥
46
+
" तिणि वि उपायाई " प्रयोsव्युत्पाद-विगम-स्थितिस्वभावाः, ते किमित्यत आह- अभिकाला य भिकाला य" अभिनकालाच निकालाच, येतो यदा घटस्य कम्बुग्रीवाद्याकारावास्यात्मिकोत्पत्तिस्तदैव न विशकलितकर्परमावात्मिका तत्प्रच्युतिः, स्वोस्पतिपूर्वकत्वात्स्वविनाशस्य । नापि विभक्तकर्परसंहतिलक्षणोत्तर पर्यायात्मकतद्विनाशसमये तस्य कपालद्वयसंयुक्तावस्था लक्षणप्राकपर्यायात्मिका समुत्पत्तिः, तदा तदुत्पश्यभ्युपगमे तदानीमविनाशापत्तेः न च स्वप्रादुर्भात्रिकाल एव स्वस्थितिः, उत्पत्तिमात्रव्यग्रत्वात्, Free रूपेणामस्थितस्यानवस्थाप्रसक्तितः प्रादुर्भावाऽयोगाच्च न च घटरूपमृत्स्थितिकाले तस्था विनाशः, तंद्रूपेणावस्थितस्य विनाशानुपपत्तेः न च घटविनाशविशिष्ट मृत्काले घट विशिष्टाया एवं मृद उत्पाद:, नापि तदुत्पादविशिष्टमृत्समये तस्या एव मृदो ध्वंसः, अनुत्पत्तिप्रसक्तेः इत्येवमेकप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पादादित्रयः परस्परतो मिनकाला, घटोत्पाद समये घटविनाशस्य घटविनाशसमये घटोत्पादस्य तदुत्पादविनाशयोरुत्पत्तिविनाशानवच्छिन्न कालसम्बन्धरूपायास्तत्स्थितेर्घदविनाश विशिष्टघटरूपमृत्स्थित्योर्वा विरोधेन परस्पराऽनात्मकत्वात् । अत एवान्योन्यव्यतिरिक्त कालोत्पादविनाशस्थित्यव्यतिरिक्तद्रव्यस्यैकत्वायोगात् तद्द्रव्यं नानास्वभावम् । भिन्नप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पादादित्रयोऽभिन्नकालाच, तथाहि-- कुशूलाद्यात्मक पूर्व पर्यायस्वद्विशिष्टमृद्वा दैव विलीयते तदैव घटाद्यात्मकोत्तर पर्यायस्तद्विशिष्टमृद्रोत्यद्यते, यतो न हि पूर्वपर्यायविनाशोत्तर पर्यायोत्पादयोः पूर्वपर्यांय विशिष्टद्रव्यनाशोत्तरपर्याय विशिष्टद्रव्योत्पादयोर्वा भिन्नकालता दृश्यते, यदि च पूर्वस्य विनाशकालोऽन्यस्स्यात् उत्तरस्योत्पादकालोऽन्यस्स्यात् तदा प्राक्तनं विनष्टतरमनुत्पन्नम्, तथाऽभ्युपगमे च पूर्वस्य तस्मिन् क्षणे विनाशादेवोत्तरस्य चानुत्पादादेव न सत्त्वम्, ध्वंसानुत्पादयोस्तदानीं सध्वेऽप्यभावरूपत्वेन तुच्छत्वादेव न वस्तुत्वमिति वस्तुशून्यस्स कालस्स्यात् भवत्वेवमिति चेद, तर्ह्यतरं निष्कारणमुत्पद्येव, ध्वंसस्य तुच्छत्वेन जनकत्वाभावात्, अव्यवहितपूर्वक्षणे वस्त्वभावाच्च, एतेन नतु बलचत्पुरुषप्रेरितमुद्गराभिघाताद् घटावयवेषु क्रियोत्पत्तिः, ततोऽवयवविभागः, तत आरम्भकसंयोगनाशः, तेन च घटविनाशः, कपालस्तु विद्यत एव तद्विनाऽपि तदवयवा विद्यन्त एव, न तु तदुत्पाद इति तयोरेकस्माद्धेतोरभावान्न घटविनाशात्मा कपालोत्पाद इति निरस्तम्, अस्य विनाशोत्पादकारण प्रक्रियो द्घोषणस्याप्रातीतिकत्वात् बलवत्पुरुषप्रेरितमुद्गरादिव्यापारादेव घटविनाशकपालोत्पादयोरवलोकनात्, मुद्गरव्यापारेण घटो विनष्टः कपालश्चोत्पन्न इति प्रतीतेः, तस्मात्पूर्वोत्तरपर्याय विनाशोत्पादावभिन्न कालौ, ते च पूर्वोत्तरपर्याय विनाशोत्पतिकिये निराधारे न सम्भवत इति तदाधारभूतद्रव्यस्थितिरपि तदाऽभ्युपगन्तव्या इत्थं
+
,
सम्मति ३.० १५
"Aho Shrutgyanam"