________________
सम्मति• का , गा० ३३
३० द्वयमध्ये चेत्यर्थः, प्रयोगजनितो मूर्तिमद्व्यावयवारब्धत्वात्समुदयवादः, तथाभूतारब्धस्य समुदायात्मकत्वात् , तत एव चासावपरिशुद्ध इति गीयते, अत्रापरिशुद्धत्वं स्वाश्रययावदवयवोत्पादापेक्षया पूर्णस्वभावत्वम् , न ह्यपूर्णावयवो घट उत्पद्यमानः कात्स्येनोत्पन्न इति व्यवाहियत इति । ननु न प्रयोगजन्य उत्पादः, घटादेरेव प्रयत्नजन्यत्वात् , उत्पादस्य त्वाधक्षणसम्बन्धलक्षणस्यातथात्वात् , यता कपालादीनां घटत्वावच्छिनं प्रति कारणत्वम् , न तु घटोत्पादत्वावच्छिन्नं प्रतीति चेत्, मैवम् , ' मुद्गरपाताद् नष्टो घटः' इति व्यपदेशाद् नाशे मुद्गरपातजन्यत्ववत् 'पुरुषव्यापारादुत्पनो घटः' इति' व्यवहारा. दुत्पादेऽपि पुरुषव्यापारजन्यत्वस्यावश्यकत्वात् । विविच्याननुभूयमानत्वेनोत्पादापलापे च नाशस्याप्यपलापप्रसङ्गात् । उत्पत्तेराद्यक्षणसम्बन्धेनान्यथासिद्धी नाशस्यापि चरमक्षणसम्बन्धेनान्यथासिद्धेः सुवचत्वात् , घटप्रतियोगिकत्वेन नाशो विलक्षण एवानुभूयत इति चेत् तथोत्पादोऽपीति तुल्यम् । किञ्चाघक्षणे ' आद्यक्षणसम्बन्धवान् घटः' इतिवत् 'आबक्षण उत्पन्नो घटः' इति प्रयोगो न सूपपादस्स्यादिति न किश्चिदेतत् ॥ ३२ ॥ द्वितीयमेदरूपो विस्रसाजनितोऽप्युत्पादो द्विविध इत्याह-~
साभाविओ वि समुदयकओव्व एगत्तिओव्व होनाहि ।
आगासाईआणं तिण्हं परपञ्चओऽणियमा ॥ ३३ ॥ 'साभाविओ वि' स्वाभाविकोऽप्युत्पाद एकः ‘समुदयकओ व ' समुदयकृतो वा जीवप्रयत्नमन्तरेण विलसापरिणतपुद्गलसमुदायेन जनितो मूर्तिमद्रव्यावयवारब्धत्वात्समुदयजनित उच्यते इति भावः। द्वितीयश्च " एगत्तिओह होजाहि " ऐकत्विको वा भवेत् । तत्राद्यः स्वभावपरिणताभ्रेन्द्रधनुरादीनामुत्पादः, घटादीनामप्रथमतयोत्पादश्च प्रतिक्षणोत्पादव्ययध्रौव्यान्यथानुपपत्तिसिद्धद्वितीयादितत्तत्क्षणविशिष्टविनाशस्य विशिष्टोत्पादनियतत्वात् , न हि मूर्तावयवसंयोगकृतत्वं समुदयजनितत्वम् , विभागकृतपरमाण्याद्युत्पादेऽव्याप्ते, किन्तु मृवियवनियतत्वम् , तच्च तदवस्थावयवस्यापि नवपुराणभावलक्षणावस्थाविशेषात् सम्भवत्ये. वेति । नन्वभ्रेन्द्रधनुरादिवदप्रथमतया घटाधुत्पादस्यापि स्वाभाविकत्वेन कारणान्तरानपेक्षत्वे घटोत्पादार्थ दण्डग्रहणादौ प्रवृत्तिर्न स्यादिति चेत्, मैवम् , उत्पादस्य प्रायोगिकवैनसिकभेदेन द्विविधत्वोक्त्या स्वाभाविकोत्पादे हेत्वनपेक्षायामपि प्रायोगिकोत्पादे तदपेक्षाधौ. व्यात्प्रवृत्त्युच्छेदाभावात् । एतेन कालादिहेतुपञ्चकसामग्याः कार्योत्पत्तिनियतत्वं जिनानुगैरभ्युपगतं तदपि स्वाभाविकोत्पादपक्षे न स्यादित्यपसिद्धान्तभीरपि निरस्ता, उक्तद्वैविध्यस्य प्रयोगविलसाप्राधान्येनैव व्यवस्थितेगौणविधया कालादिहेतुपश्चकसामग्रीनिष्ठकारणत्वा. भ्युपगमादिति । विस्त्रसापरिणामिनो वस्तुनो हेत्वन्तरमन्तरेण स्वभावत एव विनाशशीलत्व. मिव हेत्वन्तरमन्तरेण स्वभावादेवोत्पादशीलत्वमपि न्याय्यम्, एवं उत्पादविनाशयो।
"Aho Shrutgyanam"