________________
३०२
सम्मतिः काल गा. ३२ मावाद, क्षणे आद्यक्षणसम्बन्धरूपोत्पादसिद्धये तत्रापि क्षणान्तरस्याधस्य सम्बन्धकल्पना. यामनवस्थापत्तेः, तत्रोत्पादादीनां घटस्वादिना प्रतियोगित्वम्, मृवादिना चानुयोगि. स्वम्, द्रध्ये तु पर्यायोपहितरूपेण प्रतियोगित्वम् , तत्र चानुयोगितायाः प्रतियोगिन्येव समावेशाद् द्रव्यस्य नाऽनुयोगित्वम् , यथा 'घटविशिष्टं मृद्रव्यमुत्पन्नम् , ' इति । इदमत्रावधेयम्-कस्योत्पाद इत्याकासानिवृत्तिर्घटस्योत्पाद इत्युक्त्यैव भवति, कस्ये. त्याकासानिवर्तकस्य प्रतियोगित्वम् , यथा अयं गुरुरित्युक्तौ कस्य गुरुरित्याकासानिवृत्ति चैत्रस्येत्युक्त्या भवतीति शुरुत्वप्रतियोगित्वं चैत्रस्य, तथोत्पादप्रतियोगित्वं घटत्वेन घटस्य, एवं विनाशादिप्रतियोगित्वमपि, कुत्रेत्याकासानिवर्तकस्यानुयोगित्वम् यथा वह्वेः संयोग इत्युक्तौ कुत्रेत्याकासानिवृत्तिः पर्वते इत्युक्त्या भवतीति पर्वतस्य संयोगानुयोगित्वम् , तथा घट उत्पद्यते इत्युक्तौ कुत्रेत्याकाहानिवृत्तिः मृदि घट उत्पद्यते इत्युक्त्या भवतीति मृचादिना मृदादीनामनुयोगित्वम् , किमुत्पनमित्याकामानिवतेकं घटविशिष्टमृद्रव्यमुत्पन्न मिति, यहा कस्योत्पाद इत्याकासानिवर्तकं घटविशिष्टमृद्मव्यस्योत्पाद इति प्रयुज्यते यत्र तत्र घटात्मकपर्यायविशिष्टमृगव्यस्य किमित्याकाङ्क्षायाः कस्येत्याकासायाश्च निवर्तकत्वात्प्रतियोगित्वं, कुत्रेत्याकाक्षा त्वत्र नास्त्येव, यन्निवतेकत्वान्मृदोऽनुयोगित्वं सम्भाव्येतापि, घटस्य पर्यायमात्रस्योत्पादविवक्षायामेव मृदि घटस्योत्पादस्य भावादनुयोगित्वं स्यात् , सा विवक्षा तु नादृता, किन्तु घटपर्याय विशिष्टमृद्व्यस्यैवोत्पादो विवक्षित इति अनुयोगिन्या अपि मृद: प्रतियोगिकोटावेव प्रक्षिप्तत्वादिति । न चात्र विशेषणस्यैवोत्पादो विषय इति वाच्यम् विशिष्टस्यैव प्रतियोगित्वानुभवात् , इतरत्रान्वितस्य घटस्योत्पादेऽन्वयायोगाच । न च विशिष्टहेतुकल्पने गौरवम्, घटहेतूनामेव घटविशिष्टहेतुत्वात् । अत एव क्षणहेतूनामेव क्षणविशिष्टहेतुत्वात् उत्पत्त्यनन्तरक्षणेषु सर्वत्राविशिष्टवैससिकोत्पादसिद्धिः, तथा चात्रोक्तयुक्तिसिद्धातिरिक्तोत्पादः किमेकविध एव किं वा प्रकारान्तररूपोऽपीत्याशङ्कायामाह
उप्पाओ दुवियप्पो, पओगजणिओ अ विससा चेव । ... तत्थ य पओगजणिओ, समुदयवाओ अपरिसुद्धो ॥ ३२ ॥ - " उपाओ दुचियप्पो" उत्पादो द्विविकल्पः, प्रायोगिकवैनसिकमेदाभ्यां प्रकारद्वयात्मकः, विकल्पद्वयमेवाह-" पओगजणिओ अ विससा चेवत्ति" स्तम्भकुम्मादीनां प्रेक्षाकारिपुरुषक्रियाजन्यत्वात् प्रयोगेण पुरुषव्यापारेण पुरुषप्रयत्नेनेति यावत् जनितो निर्वर्त्य उत्पादः प्रयोगजनिता, पुरुषव्यापाराजन्य उत्पादो विलसाजनितः, न च पुरुषतरकारकव्यापारजन्यत्वं विस्रसाजनितोत्पादस्य लक्षण मस्त्विति वाच्यम् , प्रायोगिकेऽतिव्याप्ते, तन्मात्रजन्यत्वं तु गुरुत्वादत्रैव विश्राम्यति, तस्मात्पुरुषतरकारकव्यापारजन्यत्वं स्वरूपकथनमात्रम् , न तु तल्लक्षणम् । तत्राबभेदस्वरूपप्रतिपादनायोत्तरार्द्धमाह-तत्थेत्यादि । तत्र च-उक्तमेद
"Aho Shrutgyanam"