________________
सम्मति वास. ३, गा• ॥ तथाहि-यदुदकद्रव्यं दाहकत्वशक्यभावाइहनरूपेण प्रतिषिद्धं तदपि न सर्वथाऽदहनद्रव्य भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्ततथा कश्चिदऽतथात्वात् , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्गर, इत्यत्राप्यऽनेकान्त एव, समयाऽविरोधेन भजनाप्रवृत्तेरिति दिक ॥ ३०॥
अथ जीवः स्वस्वरूपापेक्षया जीवः कुम्भादिपररूपापेक्षया च न जीवः, एवमजीवोऽपि स्वस्वरूपापेक्षयाऽजीवो जीवात्मकपररूपापेक्षया च नाजीव इति तयोः कश्चिदुभयात्मक स्वादनेकान्तात्मकत्वमित्युपपादनायाह
कुंभो ण जीवदवियं, जीवो वि ण होइ कुंभववियं ति।
तम्हा दोवि अदवियं, अण्णोण्णविसेसिया होंति ॥ ३१ ॥ कुम्भो न जीवद्रव्यं भवति, जीवोऽपि न भवति कुम्भद्रव्यं, तस्माद् द्वावयद्रव्यमन्योन्यविशेषितौ परस्परल्यावृत्तात्मको भवतः। अयम्भावः-कुम्भाधजीवद्रव्यं जीवाद् व्यावृत्तं एवं जीवद्रव्यमपि कुम्मादेरजीवद्रव्याझ्यावृत्तम् , अन्यथा सर्वस्य सर्वात्मकत्वं स्यादिति प्रतिनियतरूपामावतस्तयोरभावस्स्यात् , खरविषाणवत् , तथा च प्रतिनियतरूपान्यथाऽनुपपश्या तयोः परस्परव्यावृत्तस्वरूपत्वे च स्वरूपापेक्षया जीवो जीवद्रव्यं कुम्मायजीवद्रव्यापेक्षया तु न जीवद्रव्यम्, एवमजीवोऽपि स्वस्वरूपापक्षयाऽजीवद्रव्यं जीवापेक्षया तु नाजीवद्रव्यम् , ततो वस्तुमात्रस्याऽऽपेक्षिकतदतत्स्वभावात्मकत्वात् सर्वमनेकान्तात्मकमिति व्यवस्थितम् । नन्वेवमजीवो जीवापेक्षया नाजीव इति द्वौ नौ प्रकृतं गमयत इति न्यायाद् जीवोऽपि स्यादिति चेत्, मैवम्, अभावपरिणतेः परापेक्षत्वेऽपि भावपरिणते: स्वापेक्षत्वात् स्वस्वरूपापेक्षया जीवः कुम्माद्यपेक्षया न जीवः, स्वस्वरूपापेक्षयाऽजीवोऽपि जीवापेक्षया नाजीव इति व्यवहारोऽपि स्याद्वादव्युत्पत्तिमहिम्ना सूपपाद एवेति सुधीभिर्भावनीयम् । न चायमनेकान्तः कल्पनामात्रनिर्मितवपुष्टुन न वस्तुगतसद्धर्मसाधकः, कल्पनाया निरहशत्वेनाप्रमाणभूतत्वादिति वाच्यम् , निपुणं निरूपणे प्रज्ञावद्भिः सर्ववस्तूनामनेकान्तात्मकतयेवाकलनादिति ॥ ३१ ।। ___ अथोत्पमकेवलज्ञानेन भगवता "उप्पजेइ वा विगमेइ वा धुवेइ वा" इति त्रिपद्या प्रवचनाधारभूतया जीवाजीवात्मकं जगत् द्रव्यार्थिकपर्यायार्थिकनयावपेक्ष्य प्रतिक्षणोत्पादव्ययध्रौन्ययुक्तमाख्यायि, अत एव प्रवचनोपनिषद्वद्येतद्वन्थकृत्सरिवरेण-"उप्पायट्टिइभंगा हंदि दवियलक्षणं एयं" इत्यनेन नयद्वयविषयकप्रमाणार्पणया परस्परानुविद्धोत्पादस्थितिमहालक्षणं वस्तुत्वसमनियतं प्रोक्तम् , अत्रोत्पादः 'उत्पन्ममिदम्' इति धीसाक्षिको धर्म, स किमेकविध एव किंवा प्रकारान्तररूपोऽपीत्याशङ्कायामाह
यद्वोत्पादादयो “मृदि घट उत्पनो मृदि घटो विनष्टो मृद्रव्यरूपेण स्थिरश्शेति पीसाक्षिका आधारस्वादिक्दतिरिक्ता अपि, न स्वापक्षणसम्बन्धादिरूपा एव, क्षण एवा
"Aho Shrutgyanam"