________________
३००
मति• काय ३, मा० ३. गतित्वावच्छिनगतिसामान्यनिष्ठप्रतियोगिताकात्यन्ताभावेन सह गतिसामान्यस्य नैका समावेश इति तद्विरोधकान्ताच्याघात एवेति वाच्यम्, गतिसामान्यामावस्यैवैकस्य यत्किञ्चिद्गतिविशेषाभावाधिकरणावच्छेदेन गतिविशेषत्वावच्छिनप्रतियोगिताकत्वं यावद्गतिविशेषाभावाधिकरणावच्छेदेन गतित्वावच्छिनप्रतियोगिताकत्वमित्यस्याभ्युपगमेन याव.
द्रातिविशेषाभावाधिकरणावच्छेदेन गतिसामान्याभावस्य गतिसामान्यविरुद्धत्वेऽपि गति. विशेषाभावाधिकरणावच्छेदेन तस्य गतिसामान्येन सममविरोधस्यापि भावेन विरोधा. विरोधयोरप्यनेकान्तस्य साम्राज्यादिति । एवमेव भूतलादिप्रतिनियतदेशापेक्षयैवैकस्मिन् द्रव्ये स्थितिमत्वं ने तु देशान्तरापेक्षयेति मिममिभदेशापेक्षया स्थितितदभावोमयसरवा. दत्राप्यनेकान्तो भावनीयः ।। २९ ॥
ननु वस्तुमात्रं तदतत्स्वभावात्मकमिति स्याद्वादपक्षे दहनात् अर्थादाहानुकूलशक्तिमवादहन इतीव स किमदहनात् अर्थाहादानुकूलशक्त्यभावात्तदानी मेवादहनोऽपि ! एवं पचनात् अर्थात् पाकानुकूलशक्तिमत्त्वात्पचन इव स किमपचनात् अर्थात् पाकानुकूलशक्त्यभावात्तदानीमेवाऽपचनोऽपि ! । ओमिति चेत् , तर्हि विरुद्धस्वभावापरया तेन स्वस्वरूपमपि परिहतं स्यादिति चेत्, स्यादेतद् यदि दहने यदपेक्षया दहनत्वस्वभावः पचनादौ च पचनत्वादिस्वभावस्तदपेक्षयैव तद्विरुद्धस्वभावस्स्यात्, न चैवम् , स्वभावद्वयस्य मिनापेक्षकत्वादित्युपपादनायाह
गुणनिवत्तियसपणा, एवं दहणादओ वि दट्टव्वा ।
जंतु जहा पडिसिद्धं, दवमदव्वं तहा होई ॥३०॥ "गुणनिवत्तियसण्णा दहणादओ वि" गुणनिर्वर्तितसंज्ञा दहनादयोऽपि, गुणेन दहतीति दहना पचतीति पचन इत्यादिव्युत्पत्तिसिद्धदाहानुकूलशक्तिमत्त्वलक्षणदहनत्वपाकानुकुलशक्तिमत्वलक्षणपचनत्वस्वभावात्मकेन निर्तिता उत्पादिता संज्ञा येषां तेऽपि दहनपचनादयः, 'एवं दवा' तथैवानेकान्तात्मका दृष्टव्या:, कथञ्चिद्दहनादहनोभयात्मका अभ्युपगन्तव्या, दहनस्य दाहपरिणामयोग्यतृणायपेक्षया दहनत्वात् , पचनस्य च पाकपरिणामयोग्यौदनाद्यपेक्षया पचनत्वात् , तत्परिणामायोग्यापेक्षया चातथात्वात् , तदेवाह-'जंदवं तु जहा पडिसिद्धं तहा अदछ होइ" यद्रव्यं तु यथा प्रतिषिद्धं तथा अद्रव्यं भवति, यद्रव्यं वदाह्याऽऽत्माकाशाप्राप्तवज्रावाद्यपेक्षया यथा दाहाऽऽद्यनुकूलशक्तिमचलक्षणदहनादिरूपतया प्रतिषिद्धं तद्रव्यं तदपेक्षया दाहकत्वादिशक्त्यभावात् अद्रव्य. मदहनादिरूपं, दहनाद्यऽभावरूपमिति यावत् , तथा मजनाप्रकारेण भवति, दाह्यं तृणादिकं दहनो दहति, न त्वदाह्यमात्माऽऽकाशादिकमिति प्रतीतेदेहनः स्याद्दहनः स्याददहन इत्यत्राप्यनेकान्त एव नितरां सिद्धिकोटिपढौकते, तथाऽदहन इत्यत्राप्यनेकान्तो भावनीया,
"Aho Shrutgyanam"