SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सम्मति का , गा० २९ मावेऽभीष्टदेशगतिकमेव द्रव्यं न स्यात् । किशानमिमतदेशागतिरेवामीष्टदेशगतिरिति विपर्ययमपि वक्तुर्वक्त्रं नैव वक्रीभवेत् , तथा चानमिमतदेशागतिस्वभावस्य प्राधान्ये बौद्धनयेनामावस्य तुच्छरूपत्वादभीष्टदेशावच्छेदेनापि द्रव्यं गतिकार्यार्जनाय समर्थन स्यात् । नवभीष्टदेशगतिस्वभाव. प्रतिनियतवस्तुन्येव वचेत इत्यसाधारणधर्मत्वात्तस्य स्वभावत्वाम्युपगमो युक्तः, न चैवमनमीष्टदेशागतिस्त्रमावस्य, तस्य वस्तुमात्रवृत्तित्वेन साधारणधर्मत्वादिति चेत् , मैवम् , यतोऽभीष्टदेशावच्छिानुयोगिकस्त्ररूपसम्बन्धेनानमि. प्रेतदेशागतिस्वमावस्याभीष्टदेशावच्छिमवस्तुन्येत्र सत्रवेनासाधारणधर्मत्वात्तस्य स्त्रमावत्वाभ्युपगमो नायुक्त इति । न चात्र शुद्धद्रव्यत्वेन रूपेणाभिमस्यापि गतिमरखे नागविमरवेन च मेदस्सिस्स्यात्तदाऽनेकान्तावकाशस्स्यात् , न चैवम् , तथा सति गच्छति द्रव्धे न गन्छ. तीत्यपि व्यवहारापत्तिस्स्यादित्याशङ्कितव्यम्, विवक्षितप्रतिनियनदेशावच्छेदेन गतिसामान्यववस्येव तदिनदेशावच्छिन्नानुयोगिकस्त्ररूपसम्बन्धेन गतिसामान्यामाववचस्यापि तद्रव्ये सफ्वेनोक्तव्यवहारस्येष्टत्वात् । एतेन गतिमदेवेत्येकान्तेन गतिसामान्यवति गति. सामान्याभावो निषिध्यते स च गतिविशेषामावेन न वाध्यते, न हि विशेषाभाव एवं सामान्याभाव इति कोऽयमनेकान्त इत्याशङ्कापि निरस्ता, सामान्यविशेषयोः कथश्चिद. भिमत्वेन गतिविशेषस्यापि गतिसामान्यरूपतया गतिविशेषाभावस्यापि गतिसामान्या. मावत्वात्, न हि विशेषस्सामान्याव्यतिरिक्त एव, तथा सति यत्र विशेषस्तत्र सामान्यस्य सत्वे पृथक् पृथक् विशेषः सामान्पश्चैकत्रोपलभ्येत, न च विशेषस्य कस्यचिदभावे सामान्यस्यास्ति सम्भव इति गतिसामान्यस्य गतिविशेषाभावस्य च संबलने स्यादेवानेकान्तः, यत्किश्चिद्गतिविशेषाभाववति योऽयमगतिव्यवहारस्म गतिविशेषमावस्वरूपमेव गत्यभावमुपादायेति यत्किञ्चिद्विशेषामावाधिकरणावच्छेदेन गतिसामान्यामावो गतिविशेषाभावानतिरिक्त एव, अर्थात् गतिसामान्यवति गतित्वेन रूपेण गतिसामान्यस्य सरवेऽपि गतिविशेषत्वेन रूपेण गतिसामान्यस्यामावोऽपि विद्यत इति तादृशस्य गतिसामान्याभावस्य गतिविशेषाभावानतिरिक्तत्वमेव, तादृशाभावसम्बलनेनानेकान्तोबारित. प्रसर एव, यश्च यावद्विशेषाभावाधिकरणावच्छेदेन विद्यमानो गतिसामान्यामावस्तस्य गतिविशेषाभावासमनियतत्वेन भवतु गतिविशेषाभावातिरिक्तत्वम् , तमुपादायानेकान्तत्वा. भावेऽपि न नो हानिः, गतिसामान्यस्य येन केनचिद्गतिसामान्याभावेन सहकत्र समावेशत एव भावाभावोभयरूपसमावेशप्रयुक्तानेकान्तवादसाम्राज्यात्, नन्वेकान्तवादिना यदेव निषिध्यते तस्यैव विधानेऽनेकान्तवादसाम्राज्यम् ,गतिपरिणतं गतिमदेवेत्येवकारेण गतित्वा. बच्छिन्नप्रतियोगिताकाभाव एव निषिध्यते, गतिविशेषत्वेन गतिसामान्याभावस्तु न गविस्वापच्छिन्नप्रतियोगिताक इति तद्विधानेऽपि नैकान्तव्यापात इति चेत्, न, गतित्वेन गति. विशेषाभावस्य गतित्वावच्छिमप्रतियोगिताकत्वेन तमुपादायकान्तव्याघातापतेः, न च "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy