________________
२९८
सम्मति• काल , गा० ५ तदेवमत्राप्यर्हच्छास्त्रपरिकर्मितमतेर्जीवनिकायधर्मिणि स्यादेकत्वानेकत्वषड्विधत्वाषद्विधवादिना सप्तभङ्गीपथेन स्यादेकत्वस्यादनेकत्वस्यात्लड्विधत्त्वस्यादपविधत्वादिसप्तधर्मप्रकारकाखण्डबोधस्यैवोत्पत्तेन व्यापकोऽनेकान्त इति ध्येयम् ॥ २८ ॥
ननु वस्तुत्वस्यानेकान्तत्वव्याप्यत्वेन तदतत्स्वभावात्मकं वस्तुमात्रमित्यभ्युपगमे गच्छति तिष्ठतीत्यत्रापि तथास्वभावापत्या गमनक्रियावद्रव्ये गच्छति स्थितिक्रियावद्रव्ये च तिष्ठतीति नियतव्यवहारो विलुप्त एव स्यादित्याशङ्कासुद्धर्तुमाह
गहपरिणयं गई चेव, केह णियमेण दवियमिच्छंति ।
तं पि य उड्डगई, तहा गई अण्णहा अगई ॥ २९ ॥ " गइपरिणयं दवियं णियमेण गई चेव केइ इच्छति" गतिपरिणतं गतिक्रियापरिणतं द्रव्यं नियमेन गतिमदेव, एवकारेण नागतिमदित्युक्तं भवति, इत्येवं केचिदिच्छन्ति मन्यन्ते तनिषेधार्थमुत्तरार्द्धमाह-तं पि येत्यादि । तदपि च गतिक्रियापरिणतं जीवद्रव्य सर्वतोगमनाऽयोगादूर्वादिप्रतिनियतदिग्गतिकमिति तैर्वादिमिरम्पुपगमे कृते सत्येवोवं गच्छत्तीति विवक्षितप्रतिनियतदिगवच्छिन्नगतिव्यवहार उपपन्नो भवति, नान्यथा, यतस्सा. मान्यतो गच्छतीत्युक्तौ कस्यां दिशीति जिज्ञासा समुल्लसत्येव, सा च विवक्षितदिगुक्त्यैव शान्ता भवतीति, तथा च विवक्षितप्रतिनियतदिगपेक्षया गतिमत् , दिगन्तरापेक्षया चागतिमदेवेति सिद्धं भवति । अयम्भावः-यथा पर्वते शिखरे वह्निः, न तु नितम्बे इति प्रतीतिबलाच्छिखरावच्छेदेन पर्वतो वह्निमान् , न तु नितम्बदेशावच्छेदेनेति तथेदं द्रव्यमूर्ध्वदिशि गच्छति न तु दिगन्तर इति प्रतीतिभावाद् गतिक्रियापरिणतं द्रव्यमूर्धादिप्रतिनियतदिगवच्छेदेन गतिमत्, न तु दिगन्तरावच्छेदेनेति तत्तदन्यदिगवच्छेदेनोभयस्वभावं तदम्युपगन्तव्यम् , अन्यथाऽभिमतदिगवच्छेदेनेवानभिप्रेतदिगवच्छेदेनापि गतिमत् स्यात् , तथा चैककालावच्छेदेनानुपलभ्यमानविरुद्धोमयदेशप्राप्तिस्स्यात् , न च सानुभवसिद्धेत्यनुभवबाधा, न चैकदैकस्मिन्नेव पर्वते भिन्नदेशावच्छेदेन स्थितवहितदभावाविव एवमिदानीं तन्तौ न घट इति प्रतीतेपटवत्यपि काले तन्त्ववच्छेदेन घटाभावस्य घटविनाशकाले इह कपाले न घट इति प्रतीतेर्घटवत्यपि कपाले घटनाशकालावच्छेदेन घटाभावस्य च नैयायिकैरभ्युपगमेन भिन्न देशकालावच्छेदेनकाधिकरणावस्थितषटघटाभावाविव भिमभिन्नादिगवच्छिन्नगवितद ऽभावी विरुद्धौ, येनैकस्मिन् द्रव्ये एककाले तौ न स्याताम्-तथा च कारणसमाजेन विवक्षितप्रतिनियतदिगवच्छिन्नगतिपरिणामस्वभाववति द्रव्ये तदानीमेव तदन्यदिगवच्छिमाऽगति. परिणामस्वभावोऽप्युत्पद्यत इति नात्राप्यव्यापकोऽनेकान्तः । अथाभीष्टदेशगतिरेवानभि. मतदेशागतिरिति विध्येकस्वरूपत्वान्नानानेकान्तोऽवकाशं भजत इति चेत्, तर्हि यद् यस्य विरोधि तत् तदभावसच्च एव स्वस्वरूपं बिभर्तीति विरोधिन्या अनभिमतदेशगतेरभावा
"Aho Shrutgyanam"