________________
बाविक काम, मा०.४
एगविह दुविह तिविहा, चउबिहा पंच छविहा जीवा ।
यण-तस इयरेहिं, वेय-गइ-करण-कायेहिं ॥१॥ इति सिद्धान्तोक्रेकविधद्विविधत्रिविधत्वादिसिद्धान्तोक्तयावत्प्रकारेण यथाऽवस्थित. जीवतत्वावलोषो न तस्येति स्याद्वादेन विविक्तपदकायपरिज्ञानं विना स्वसमयपरसमयविवेचनं विना चौघतस्तद्रागमात्रसद्भावात् । अतएवोपदेशरहस्ये
" सदसदविसेसणाओ, विभजवायं विणा ण सम्मत्तं ।
जं पुण आणाहणो तं निउणा विंति दम्वेणं ॥ १०॥" इति गाथटीकायां " यत्पुनराबारुचेः प्रियगीतार्थाज्ञस्य मार्गानुसारिणः सम्यक्त्वम्, तनिपुणाः सिद्धसेनदिवाकरप्रभृतयः द्रव्येण ध्रुवते स्याद्वादप्रतिपत्तियोग्यतायास्तजन्य. निर्जराजनककर्मक्षयोपशमरूपायास्तेष्वखंडितत्वादित्युक्तम् ।
तथा च नियमतः षट्कायश्रद्धानेऽपि भगवतैवमुक्तमिति जिनवचनरुचिमत्वाद्व्यतः सम्यग्दृष्टित्वम् , न तु भावतः, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वात् , एकविधद्विविधादिपर्यायाऽपरिच्छेदे तदनुपपत्तेरिति भावः । अत एव शास्त्रे सम्यक्त्वं तावद्रव्य. भावभेदाद् द्विविधं प्रोक्तम्, तत्र परमार्थाऽपरिज्ञानेऽपि भगवद्वचनतस्वरुचिराधम् , परमार्थपरिज्ञानतश्च द्वितीयम्, तच्च नयनिक्षेपादिपरिच्छेदाधीनयथाऽवस्थितसूत्रतात्पर्यार्थपरिज्ञानजन्यविशिष्टप्रवचनतस्वरुचिस्वभावम् । तदाह. "तुह वयणतत्तरूई, परमत्थमयाणओ वि दव्वगयं ।
इयरं पुण तुह समये, परमत्थावगमओ होइ ॥ १ ॥" इति । । उक्तलक्षणं द्रव्यसम्यक्त्वमपि शुभात्मपरिणामविशेषानुगतं भावसम्यक्त्यरूपमपि न व्यभिचरति, अर्पितानर्पितसिद्धेभयरूपाविरोधात , अत एवं रूचि भेदा अपि द्रव्यसम्ब. स्वरूपेण भासमाना अपि झायोपशमिकादिभेदेवताविता वाचकचक्रवर्तिना प्रजाती । तदयमपेक्षयैव द्रव्यभावविभागो भावनीय इत्युक्तं प्रतिमाशतकटीकायाम् । __ यद्वा अपर्यायेषु एकादिप्रकाररहितेषु षट्सु कायेषु श्रद्धाऽविभक्ता भवति, स्याद्वादज्ञानपरिसमाप्याकासाऽपरिपूर्णाऽविश्रान्ता भवति, एगविहदुविहेत्यादिपूर्वगायोक्तप्ररूपणयैन तद्विश्रान्तिसम्मवाद, यतो नियमेन षडेव जीवनिकाया इति श्रद्धानवतः प्रकृतषट्त्वादि. धर्मघटितसप्तमङ्गप्रतिपाद्यसप्तधर्मपर्याप्तप्रकारताकस्य स्याद्वादजन्यबोधस्याऽमावेन तत्परिसमायायास्तादृशबोधनिवाया आकाङ्क्षयास्सप्तविधधर्मजिज्ञासाया निवृत्तिलक्षणपरिप्रभावन पडेन जीवनिकाया इति श्रद्धा अविश्रान्ता अपरिपूर्णा भवति । अत्र विशेषजिज्ञासुभिर्नयोपदेशटीकाऽनेकान्तव्यवस्थाऽष्टसहस्त्रीप्रतिमाशतकादयोऽवलोकनीया इति ।
३८
"Aho Shrutgyanam"