________________
२९६
सम्मति० काण्ड ३, गा० २८
कान्तस्य स्वस्वरूपेणानेकान्तत्वेऽपि द्वितीयसतमङ्गयपेक्षया एकान्तत्वमित्यनेकान्तता, एवं द्वितीय सप्तभयास्स्वस्वरूपेणैकान्तत्वेऽपि प्रथमानेकान्तसप्तभङ्गयपेक्षयाने कान्तस्व मित्यनेकान्ततेति । अन्यत्सर्वमस्मत्प्रणीत महावीरस्तव कल्पलतिकातोऽवसेयम्, विस्तरमया नेह प्रतन्यते ॥ २७ ॥
नन्वनेकान्तत्वस्य वस्तुत्वव्यापकत्वे षड्जीवनिकायास्तवाते चाधर्म इत्यत्राप्यनेकान्तापतिरस्यादित्याशङ्कामिष्टापच्या परिहर्तुमाह
णियमेण सहहतो छक्काए भावओ ण सहहह ।
हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥ २८ ॥
,
" नियमेण सद्दहंतो " नियमेनावधारणेन पडेवैते जीवाः कायाश्वेत्येवं श्रद्दधानः aare भावओ ण सद्दह " षट्कायान् भावतः परमार्थतो न श्रद्धत्ते, जीवराशेरेकत्वेन तदपेक्षया जीवेष्वेकत्वस्य कायेष्वपि पुद्गलत्वेन रूपेणैकत्वस्य जीवपुद्गलप्रदेशानां परस्पराविनिर्भागवृत्तित्वाजीवप्रदेशेष्वपि कथञ्चिदजीवत्वस्य च निकायेष्वपि प्रत्येकं प्राधान्यवित्रक्षया कथञ्चिदनिका यत्वस्य च सद्भावेऽपि एवं प्रमादयोगेन प्राणव्यपरोपणं हिंसेति हिंसालक्षणोक्तेः प्रमादकृत हिंसा हिंसैवेति तथा स्यादधर्मः, अप्रमादकृतहिंसा त्वहिंसैव, उक्त हिंसालक्षणाऽघटनादिति तया नाधर्मः सूत्रविहितविधिना प्रवृत्तत्वात् इत्युभयधर्मस्य सद्भावेऽपि च तत्तद्धर्मरूपेण यथावस्थितानेकान्तात्मक वस्तुज्ञानाभावान्न भावसम्यग्दृष्टिरसौ, प्रमाण सकल तत्तन्नय गर्भससभङ्गीपथेन कथञ्चित् षट्त्वादिकथञ्चिदषट्त्वादिकथञ्चिन्निकायत्वकथञ्चिदनिकायत्वादिसप्तधर्म प्रकारकै कधर्मिविशेष्य कबोधाभावेन जिनप्रज्ञतषट्त्वापट्त्वादिसप्तधर्मान्वितभावविषयकसमूहालम्बनरुच्यमाबाद, प्रकृतधर्मघटितसत नङ्गजन्य सप्तधर्मवर्यासप्रकारताकाखण्डबोधजनितसमूहालम्बनरुचेरेव भावश्रद्वापदार्थत्वात्, द्रव्यसम्यग्दृष्टिस्तु स्वादेव, अन्यदर्शनासङ्ग्रहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्रस्य तत्र सद्भा वात् । उक्तश्च सङ्क्षेपसम्यक्त्वलक्षणमुत्तराध्ययनाष्टाविंशतितमाध्ययने
44
•
" अणभिग्गहियकुदिट्ठी, संखेवरुइत्ति नायव्वो ।
अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु || २६ || " इति । नियमेन षट्कायान् श्रद्दधद् भावतो न श्रद्धत्ते इति भावतो न सम्यग्दृष्टिरित्यत्रैव हेतूपदर्शनार्थमुत्तरार्द्धमाह-हंदीत्यादि । 'हंदि' इत्युपदर्शने, यतः अपर्यायेषु भङ्गान्तरसंवलन रहितेषु धर्मेषु अपेनिक्रमत्वात् श्रद्धाध्यऽविभक्ताऽसंपूर्णा भवति, द्रव्य श्रद्धापर्यवसन्ना भवतीति यावत् । यद्वा 'हंदि ' इत्युपदर्शने, यतः अपर्यायेषु एकया दिप्रकाररहितेषु षट्सु कार्येषु अपेर्मिनक्रमत्वात् श्रद्धाप्यविभक्ता अविविक्ता संक्षिप्ता भवति, द्रव्य श्रद्धापर्यवसन्ना भवतीति यावत् ।
"Aho Shrutgyanam"