________________
१९५
सम्मति० काण्ड ३, गा० २७
44
दबट्टयाए सासया पजवढ्याए असासया
असासया " इत्येवमनेकान्तप्रतिपादकस्य इत्येवं चैकान्ताभिधायकस्याऽविरोधेन सिद्धो भवति । खण्डखाद्ये -- देशेन देशदलनं भजनापथे तु, स्वच्छासने निजकरेण मलापनोदः । व्याघातकृन्न भजना भजना जनाना, मित्थं स्थितौ शबलवस्तुविवेकसिद्धिः॥४२॥
"Aho Shrutgyanam"
??
,
इति श्लोकटीकायामित्थमुक्तम् - भजनामजना स्याद्वादेऽपि स्याद्वादः, न व्याघातकृत् न स्याद्वादलक्षणक्षतिकृत्, एकत्र धर्मिणि प्रतिधर्मं सप्तधर्मप्रकारकबोधजनकतापर्याप्तिमद्वाक्यत्वस्य स्याद्वादलक्षणस्य प्रतिभङ्गमेकधर्मावधारणत्वरूपनयत्वेऽप्यविरोधात् । तदाह समन्तभद्रः - अनेकान्तेऽप्यनेकान्त इत्यादि, प्रमाणत्वमाश्रित्याने कान्तः नयत्वमाश्रित्य चैकान्त इत्येतदर्थः । यदि च स्यादस्त्येवेत्यादिसप्तमङ्गयात्मक महावाक्ये स्यात्पदस्थ वाचकत्वपक्षे बुद्धिविषयावच्छेदकावच्छिन्नत्वमेव तदर्थः, तदा सामान्यतोऽवच्छेदकला मे विशेषतस्तजिज्ञासायां तदनन्तरं स्वद्रव्यापेक्षयाऽस्त्येवेत्यादिरेकान्तेन नयवाक्यप्रयोग इति तस्यापि प्राक्तननेकान्तसापेक्षत्वेनानेकान्ताऽनेकान्तत्वं परिभाषते, अत एव नानवस्था, तृतीयचतुर्थाने कान्तयोः प्रथमद्वितीययोरेव विश्रामात्, अन्योन्याश्रयस्तु प्रामाणिक इति बहवः । विशेषतोऽवच्छेदकजिज्ञासाया अपि सप्तविधाया औत्सर्गिकत्वात् भङ्गद्वयप्रयोगस्य च व्युत्पन्नापेक्षत्वात्, सामान्यविशेषभावेन सप्तभङ्गीद्वयविश्रामे तदादिवत् स्यात्पदेन लब्धस्यार्थस्य विवरणेन स्पष्टत्वार्थं वोचरप्रयोगान्न दोषस्पर्शोऽपीति च यमित्यादि । अत्र प्रमाणत्वमाश्रित्येत्यादेरयमर्थः - स्याद्वादः प्रतिभङ्गमेकधर्मावधारणरूपत्वेन नयात्मकः, सप्तभङ्गयपेक्षया तु सप्तधर्मावधारणरूपत्वात् प्रमाणरूपः, अतो नयत्त्रप्रमाणत्वोभयधर्मशालित्वात् स्याद्वादोऽपि स्याद्वादरूप इति । अस्मिन् कल्पेऽवच्छेदकस्य सङ्कोच. विकास भावेनैकान्तत्वानेकान्तत्वविचारणा न कृता, यदि चेति कल्पे तु तथाविचारणा कृतेति विशेषः । अयम्भावः -- स्यादस्त्येवेति मङ्गे स्यास्पदस्य वाचकत्वपक्षे बुद्धिविषयत्वेन रूपेण स्वद्रव्यादीनां चतुर्णामप्युपसग्रहादने कावच्छेदकमुखेनावच्छेद्य प्रतिपादनादनेकान्तत्वम्, विशेषावच्छेदकजिज्ञासया प्रतिपाद्यमाने च स्वद्रव्याद्यपेक्षयाऽस्त्येवेत्यादिभङ्गे प्रतिनियतावच्छेदक विशेष मुखेनावच्छेद्यप्रतिपादनादेकान्तत्वमिति कृत्वा स्यादस्त्येवेत्यादि सप्तवाक्यापेक्षयाऽनेकान्तः स्वद्रव्याद्यपेक्षया स्यादस्त्येवेत्यादिसप्तभङ्गापेक्षयैकान्त इत्यनेकान्ते सामान्यतोऽवच्छेदकावच्छेदेनास्तित्वाद्यभिधायकस्य तत्तद्भङ्गस्यावच्छेदकांशे- नेकान्तत्वं विशेषतोऽवच्छेदकावच्छेदेनास्तित्वाद्यभिधायकस्य तत्तद्भङ्गस्यावच्छेदकांशे एकान्तत्वमित्येवमनेकान्तस्यैकान्तत्वो भय धर्म योगादनेकान्तता, पूर्व स्यादस्त्येवेत्यादिसप्तभङ्गथास्सामान्यतोऽवच्छेदकमादाय सप्तधर्मज्ञानम्, ततश्च सामान्यज्ञानाद्विशेषजिज्ञासया स्वद्रव्याद्यपेचया स्यादस्त्येवेत्यादिसप्तभङ्गीप्रवृत्तिः, तत्प्रवृत्या च प्रथमसप्तभङ्गयात्मकाने