________________
२९५
सम्मति० काण ३, गा० २७ धाराया अविच्छित्तेरनवस्थालताऽऽकाशतलावलम्बिनी स्यात् , द्वितीये एकान्तत्वप्रसक्ति, द्वौ नौ प्रकृतं गमयत इति न्यायात् , तथा चात्र घटपटादिकमने कान्तात्मकं वस्तुत्वादिति पर्यवसितानुमानेऽनेकान्त एव व्यभिचारदोषप्रसक्तिः, अनेकान्तात्मकत्वाभाववत्यनेकान्त एव वस्तुत्वहेतोस्सत्वादिति चेत्, उच्यते, यो हि वस्तुमात्रमनेकान्तात्मकमिति ब्रूते से कथमनेकान्तेऽनेकान्तोऽस्ति न वेति पर्यनुयुज्येत, अनेकान्तत्वस्य वस्तुत्वसमनियतत्वेन जिनानुगैरुक्तत्वादनेकान्तेऽनेकान्तत्वाभावे वस्तुत्वव्यापकत्वांशासचनेन तथात्वं न स्यादिति तदन्यथानुपपत्याऽनेकान्तेऽप्यनेकान्तत्वस्येष्टत्वात् , न चानवस्था, तृतीयचतुर्थात्य. न्तामाक्योायमते प्रथमद्वितीयात्यन्ताभावात्मकत्ववत् तृतीयचतुर्थानेकान्तयोरपि प्रथमद्वितीयानेकान्तात्मकत्वाभ्युपगमात् , यथा नैयायिकादीनां घटाभावोऽतिरिक्त एक, तदभावश्च घट एव, तृतीयाभावश्चाद्याभाव एव, चतुर्थाभावश्च द्वितीयामाव एव, इत्यादिरीत्या नानवस्था तथाऽस्माकं " अनेकान्तः। १। अनेकान्ताऽनेकान्त एकान्तः ॥२॥ घटाभावामावो घट इवेति द्वितीय भेदः। तदनेकान्त आद्य एव, घटाभावाभावाभावो घटाभाव इवेति तृतीय मेदः । " तदनेकान्तश्च द्वितीय एवेति का नामानवस्थेत्याशयेनाह
भयणा वि हु भइयव्या, जह भयणा भयह सव्वदव्वाई।
एवं भयणा णियमो वि होइ समयाविरोहेण ।। २७ ।। "जह भयणा भयइ सबदवाइं" यथा भजना भजते सर्वद्रव्याणि, यथाऽनेकान्तो जीवाजीवसर्ववस्तूनि भिन्नाभिन्नं नित्यानित्यमित्यादितदतत्स्वभावात्मकतया ज्ञापयति तथा “ भयणा वि हु भइयबा" भजनाऽपि अनेकान्तोऽपि खलु भजनीया, स्यादेकान्तः स्यादनेकान्त इत्येवमनेकान्तोऽप्यनेकान्तः । यद् यद्वस्तु तत्तदनेकान्तात्मकम् , यथाऽऽत्म. घटादिकमिति व्यायाऽनेकान्तत्वस्य वस्तुत्वव्यापकत्वेन सिद्धेश्वेतनाचेतनयोरिवानेकान्तेऽपि व्याप्यस्य वस्तुत्वस्य नियमेन सत्वात्तध्यापकस्यानेकान्तत्वस्याऽप्यवश्यम्मावेना. नेकान्तस्थाप्यनेकान्तानुविद्वैकान्तगर्भत्वात् । कथमनेकान्तेऽनेकान्त इति चेत्, उच्यते, नयापेक्षया स्यादेकान्तः प्रमाणापेक्षया च स्यादनेकान्तः, “अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः" इत्यभिधानात् । तथाहि-यथा नित्यानित्यादिशचलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाधेकतरधर्मावच्छेदकावच्छेदेनैकतरधर्मात्मकत्वम्, उभयधर्मावच्छेदकावच्छेदेन वोमयधर्मात्मकत्वं तथा नित्यत्वानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकता. पर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं च न दुर्वचमिति भावः । एतदेवाह-" एवं मयणा णियमो वि होइ समयाऽविरोहेण" अत्रापिशब्दस्य चकारार्थत्वात् , एवं पूर्वोक्तनीत्या भजना अनेकान्तो नियमकान्तश्च समयस्य सिद्धान्तस्य " रयणप्पभा सिय सासया सिय
"Aho Shrutgyanam"