________________
सम्मति काण्ड३, गा० २६ संयोगेन वहिर्यदेशावच्छेदेन यत्कालावच्छेदेन च वर्त्तते सद्देशकालावच्छेदेन पर्वते समवायसम्बन्धावच्छिमवहिनिष्ठप्रतियोगिताकामावस्य विद्यमानत्वेन वहितदभावयोर्विरोषो न स्यात् । अथ येन सम्बन्धेन यद्देशकालावच्छेदेन यत्र प्रतियोगी तत्र तेन सम्बन्धेन तदेशकालावच्छेदेन तदभावो नेत्येवं सम्बन्धदेशकालघटितमेव विरोधलक्षणं क्रियत इति वेत् , तर्हि स्वद्रव्यक्षेत्रकालाभावैर्घटस्मन् परद्रव्यक्षेत्रकालभावैश्वासन् द्रव्यार्थतया नित्यः पर्यायार्थतया चाऽनित्य इत्येवमेकवस्तुन्यापेक्षिकतत्तदभावप्रतिपादकस्याद्वादागमतत्व. दा. भेदयोभिनावच्छेदेनैकवस्तुन्यभ्युपगमे का प्रोक्तलक्षणविरोधक्षतिरिति विभाव्यताम् । अथ परस्परविरहनिष्ठापाद्यतानिरूपितापादकताकत्वलक्षणं विरोधस्येति चेत्, तदप्यत्र नोपयुक्तम् , यतश्शीतत्वोष्णत्वयोरिव ययोः परस्पराभावच्याप्यत्वं तयोरेवोक्तलक्षणविरोधो घटते, न तु घटतदभावयोरिव परस्परविरहरूपयोर्भेदाभेदयोः, तथा च यदि भेदस्स्यात् तर्षभेदो न स्यादित्यापादनमापादकस्य भेदस्यापाद्याभेदाभावरूपत्वेन तथा यद्यभेदस्स्यासहि मेदो न स्यादित्यापादनमभेदस्यापादकस्यापाद्यभेदाभावरूपत्वेनापाधापादकयोमेंदो नेति तयो
प्यव्यापकमावाऽभावानोक्तलक्षणं कर्तुं शक्यमिति प्रकृते तन्न सङ्गच्छते, सहानवस्थानलक्षणं स्वत्रैव चरितार्थमिति, तन्नानेकान्ततचाभ्युपगमे विरोधगन्धलेशोऽपि । यदुक्तमध्यात्मोपनिषदि
"भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना ।
नित्यानित्यायनेकान्त,-स्तथैव न विरोत्स्यते ॥१॥" इति । एतेन यदवच्छेदेन भेदस्तदवच्छेदेन भेद एव, यदवच्छेदेनाभेदस्तदवच्छेदेनाभेद एवेति कथमेकमेवोमयरूपम् । अथ भेदावच्छेदकरूपेणाऽभेदोऽपि अभेदावच्छेदकधर्मेण भेदोऽपीति चेत्, तर्हि सङ्करदोषप्रसङ्गः, सर्वेषां युगपत्प्राप्ते, तदुक्तम् “ सर्वेषां युगपत्प्राप्तिः सङ्करः" इति, इत्यपि निरस्तम्, स्वस्वरूपापेक्षयकस्वरूपेऽपि धर्मिणि स्वीयस्त्रीयभिन्नभिन्ननिमित्तापेक्षयोमयरूपत्वे विरोधाभावात् , यतो न शेकापेक्षयैव भेदाभेदोभयेन माध्यमित्येवं तत्वविनीतिरिति । भेदावच्छेदकरूपेणाभेदोऽपीत्यादि न्यायानभिज्ञताविलसितमेव, यतो न हि सकर्णेन सनिरूपकपदार्थानामेकापेक्षयैवैकस्मिन् वस्तुनि सत्चमभ्युपगम्यते, अन्यथा पदपेक्षया इस्वत्वं तदपेक्षयैव दीर्घत्वं च स्यात् । एतेन सङ्करप्रसङ्गोऽपि निरस्तः, एकावच्छेदेन युगप वेदाभेदोमयस्यानभ्युपगमात् । अत एव भिन्नभिन्नापेक्षक भेदाभेदाधुभयावगाहिप्रत्यक्षादिप्रमाणगोचरत्वाद्वस्तुमानं यथार्थमावाकितानेकान्तात्मकतयैव निश्चीयत इति न संशयाऽप्रतिपच्यादयः केऽपि दोषा उद्भावयितुं योग्याः । तदेवं विरोधादिदोषाकलङ्किततयाऽनेकान्ततस्वमेव प्रमाणकोटिमाटीकत इति सिद्धम् ॥ २६ ॥ । .: नन्वनेकान्तेऽनेकान्तोऽस्ति न वा, आधे तत्राप्यनेकान्ता, तत्राप्येवमित्येवमनेकान्त:
"Aho Shrutgyanam"