________________
२९२
सम्मति• काम, गा.२६ मेदाभेदोमयरूपत्वेन मेदाभेदोमयस्य साध्यतां विधाय सा प्रसाधनीयेति । न चोभयत्वस्याप्येकविशिष्टापरत्वरूपत्वेन पूर्वोक्तदोषतादवस्थ्यमिति वाच्यम् , विरुद्धयोरपि घटत्वपटत्व. योरुभयत्वेन प्रत्ययात् तस्य तदूपत्वाभावात् । मेदामेदोमयश्च पक्षे सिख्यन् ईश्वस्यादिमते क्षितिः सकर्नुका कार्यवादित्यनुमानेनोपादानापरोक्षज्ञानचिकीर्षाकृतिमत्त्वमिति कर्तृत्वलक्षणेन किश्चिदज्ञानां व्यणुकोपादानपरमाणुविषयकप्रत्यक्षज्ञानाद्यसम्मवेन तद्बाधात् पक्ष. धर्मतावलादीश्वरसिद्धिवजात्यन्तरात्मक एव सिद्ध्यति, उक्तश्च श्रीमहावीरस्तवे पूज्यपादो. पाध्यायः " स्याद्वादतस्तव तु बाह्यमथान्तरङ्ग, सल्लक्षणं शबलतां न जहाति जातु" इत्यादि ।। अत्रैधर्मिणि स्वधर्मभेदाभेदावसहिष्णवस्तन्त्रान्तरीयास्सनिरन्ते, अहो आर्हता केनेदं सुहृदा युष्मचित्ते शल्यमकारि, येन परस्परविरहरूपत्वात् वह्निवह्वयभावावित्र विरुद्धावपि भेदाभेदावविरुद्धावित्यङ्गीकुरुथ । न च परस्परविरहरूपत्वहेतुरेवासिद्धः पक्षे दृष्टान्ते चेतिस्वरूपासिद्धिदृष्टान्तासिद्धिदोषद्वयग्रस्तस्स इति वाच्यम् , यतो चह्निमति वन्यभावस्याप्रतीतेस्तदभावस्य व्यवहाराच धूमध्वजो वन्यभावविरहात्मका, एवं वहन्यभाववति वनेरप्रतीतेस्तदभावस्य च संवेदनाद्वन्यभावो हुतभुम्बिरहात्मक इति न दृष्टान्तासिद्धिः, एवं घटभेदवति पटे घटाभेदस्याप्रतीतेः तदभावस्य च व्यवझियमाणत्वाच्च घटभेदो घटाभेद. विरहात्मकः, एवं घटाऽभेदोऽपि घटभेदविरहात्मको ज्ञेय इति न स्वरूपासिद्धिरपि, तथा चैकतरनिषेधेऽपरविधेरवश्यं भावेनैकरूपमेव वस्त्वभ्युपगन्तव्यम् , अन्यथा दृष्टहानेरदृष्टकल्पनायाश्च प्रसङ्ग इति चेत् अहो पण्डितमन्यानां भवतां न्यायनिष्णातत्वम् , विरोध. लक्षणमपि नैव सम्यग्ज्ञातम् , यतो विरोधस्य किं लक्षणमिति वाच्यम् । अथात्र किं वाच्यम् , एकाधिकरणावृत्तित्वं तदिति चेत्, तन्न सहृदयानां चमत्कृति विधत्ते, यत इदं रजत. मित्यादिभ्रान्तज्ञाने धम्यंशे प्रामाण्यं प्रकारांशे चाऽप्रामाण्यमिति तयोरप्येकस्मिनेत्र ज्ञाने वृत्तित्वाद्विरोधो न स्यात् , एवमिह पर्वते नितम्बे हुताशनो न शिखर इति प्रतीतेरेकत्रैव क्षितिधरे नितम्बशिखरदेशावच्छेदेन वह्नितदभावयोवृत्तित्वेन तयोरप्यविरुद्धवं स्यात् । एवमिदानी तन्तौ न घट इति प्रतीतेः घटवत्यपि काले तन्त्ववच्छेदेन घटामावस्य सद्भावाद् घटतदभावयोरपि विरोधो न स्यात् । अथ यद्देशावच्छेदेन प्रतियोगी यत्र वर्तते तद्देशावच्छेदे. नैव तदभावो न तत्र वर्तते इत्येतावता तयोविरोधोऽक्षत एवेति चेत्, तदपि न, इदानीन्तनधनञ्जयवत्यपि शैलेऽतीतानागतकालावच्छेदेन तदभावप्रतीतेभित्रकालावच्छेदेनाप्येकत्र तत्चदभावयोरपि वृत्तेविरोधो न स्यात् । अथ तथावृत्तिरेव नाभ्युपगम्यत इति चेत् , मैवम् , घटविनाशकाले इह कपाले न घट इति प्रतीर्घटवत्यपि कपाले घटनाशकालावच्छेदेन तदभावस्याप्यभ्युपगमात् । प्रतियोगिमतोरपि देशकालयोः कालदेशभेदावच्छेदेन तदभाव इति शिरोमणिवचनात् । अथ यद्देशकालावच्छेदेन यत्र यो वर्तते तद्देशकालावच्छेदेन तत्र तदभावो न वर्तत इत्येवं विरोधलक्षणं क्रियत इति नोक्तदोष इति चेत्, वदापि पर्वते
"Aho Shrutgyanam"