________________
मम्मति० काम , ० २६
२९१ द्वादशाङ्गोक्तामलतत्वावगणनाविधायिनो न ते यथार्थतस्वमवगच्छन्ति, अन्यथावादिनिकवादिवदिति तात्पर्यार्थः ॥ २६ ॥
एतावता प्रबन्धेनाऽनेकान्तवाद एव सद्युक्त्या सिद्धिकोटिं नीतः, तथाहि-ज्ञानात्मनोर्घटरूपायोश्च न तावदेकान्तमेदः, तथा सति हिमवद्विन्ध्याचलयोरिव सम्बन्धाऽयोगत आत्मनोऽझत्वं घटादेश्च नीरूपत्वादि प्रसज्येत, भिन्नत्वाविशेषाद्वाऽऽकाशादावपि सचेतनत्वं रूपादिमवं च भवेत् । ननु नैवं भवेत् , यतः सर्वथा मिन्नयोरप्यव्यवहितयोर्घटभूतलयो. संयोगस्येवायुतसिद्धयो नात्मनोर्घटरूपायोश्चापि समवायसम्बन्ध इति तेनात्मनि ज्ञानस्य घटे च रूपादेस्सदावादिति चेत् , मैवम् , यतो न सम्बन्धिनोरसम्बद्धस्सम्बन्धी विशिष्ट बुद्धिमाधातुं क्षमा, तथा सत्यात्मज्ञानयोरिवाकाशज्ञानयोरपि समवायसम्बन्धो विशिष्टबुद्धि विदध्यात् , अतस्सम्बद्धस्सम्बन्धी विशिष्टबुद्धिं जनयतीत्यम्युपगन्तव्यम् , अथ समवाय. सम्बन्धस्स्वरूपसम्बन्धेनैव सम्बद्ध इति ज्ञानप्रतियोगिकरस आत्मना सहैव स्वरूपसम्बन्धेन सम्बद्ध इति तत्रैव विशिष्टबुद्धिं करोतीति चेत् , तर्हि वरं प्रथमत एव तस्याभ्युपगमनं, किमन्तर्गडना समवायेनेति, अधिकं पूर्वमेवोक्तमिति न पुनरुच्यते, तत्रैकान्त मेदो युक्तः । नाप्येकान्ताऽमेदा, तथा सत्यात्मनि ज्ञानं ज्ञानवानात्मा, घटे रूपं रूपवान् घट इत्यादि मेदावगाप्रितीतिर्नैव प्रामाणिकी भवेत् , अभिनयोराधाराधेयभावामावात् , प्रत्युत आत्मा शानं ज्ञानमात्मा पटो रूपं रूपं घट इति इति प्रतीतिरस्यात्प्रमात्मिकेति प्रमाणप्रथा मनोरथ. मात्रार्था स्यात् , घटादिवद्रपस्यापि द्वीन्द्रियवेधत्वं रूपादिवद् घटादेरपि प्रतिनियतेन्द्रिय. प्राद्यत्वं च स्यात् , अथाभिन्नयोरपि तादात्म्यसंसर्गेणाधाराधेयभावो भविष्यतीति चेत्, तदपि न युक्तम् , तस्य स्वस्मिन् स्वसम्बन्धित्वस्यैव नियामकत्वात् , अन्यथा घटे घटो घटवान् घट इत्यादिप्रतीतिरपि स्यात् प्रमात्मिका, ओमिति चेत् , तथाप्याधारस्वाधेयत्वधर्मभेदेनैव मित्रत्वप्रसङ्गः, धर्मयोर्धमिरूपत्वावमिति चेत् , तथाप्येकानेकत्वस्यैव सुदृढनिरूढत्वं प्राप्तम् , द्विरूपस्यैकरूपत्वान्यथाऽनुपपत्तो, आधारत्वाधेयत्वधर्मयोः काल्पनिकत्वेकथनं स्वनुचितमेव, तद्वतोऽपि तथात्वापत्तेः, विशेषणस्यापारमार्थिकत्वे विशिष्टस्याप्यपारमार्थिकत्वस्या. विमानेन सिद्धत्वादिति कथञ्चिद्भेदाभेदस्यैव सम्बन्धव्यापकत्वेन तदभावे तदभावस्स्यात्, ध्यापकामावस्य व्याप्यामावनान्तरीयकत्वात् , तथा च द्रव्यगुणौ भिन्नावच्छेदेनैकाधिकरणपत्तित्वसंसर्गेण मेदविशिष्टामेदवन्तौ सम्बन्धाऽन्यथाऽनुपपत्तेरित्याधनुमानेन मेदामेदारम. कत्वं सिद्धिसौधमध्यास्ते । अथ साध्याऽप्रसिद्धिश्वपाकसंस्पर्शमाजित्वात् तत् तत्साधनक्षम नेति चेत्, मैवम् , अनुयोग्युपस्थापकपदसमानविभक्तिकप्रतियोग्युपस्थापकपदसममिव्याइतस्य नो भेदप्रत्यायकत्वेन मूले महीरुहो न कपिसंयोगीति प्रत्ययबलात् प्राज्ञशिरोमणिना शिरोमणिना शाखामृगसंयोग्यऽभित्र एव पक्षे मूलावच्छेदेन कपिसंयोगिभेदप्रसाधनात् । अथास्तु तं प्रति तत्सिद्धिः, तदिनं प्रति सा कथमिति चेत्, उच्यते,
"Aho Shrutgyanam"