________________
२९०
सम्मति० काण ३, गा० २५-२६ सीसमईविष्फारण-मेत्तत्थोयं को समुल्लायो ।
इहरा कहामुहं चेव, नस्थि एवं ससमयम्मि ॥ २५ ॥ "सीसमईविष्फारण मेत्तत्थोयं" शिष्यमतिविस्फारणमात्रार्थोऽयं, विनीतविनेयबुद्धिविकाशनमात्रफलकोऽयं, त्रिकरणयोगशुद्धिपुरस्सरश्रवणैकतानानामन्तेवासिनां विनयभक्तिभावेन सुगुरूपासकानां सप्तमङ्गयात्मकमहावाक्यजन्यप्रमाणात्मकाऽखण्डशाब्दबोधजनकावान्तरनयवाक्यार्थविषयकखण्डवोधोत्पादनमात्रफलकोऽयमिति यावत् । “कओ समुल्लावो" कृतः समुल्लापा, विहितः प्रबन्धः । 'इहरा' इतरथा स्याद्वादस्य वस्तुत्वव्यापकत्वेन वस्तुमात्रस्यानेकान्तात्मकत्वाद कहामुहं चेव नत्थि एवं ससमयम्मि' किमेते गुणा गुणिनो भिन्ना आहोस्विदभित्रा इत्येवं स्वसमये अर्हसिद्धान्ते कथैवैषा नास्ति, एकान्तनयविषयाऽसत्त्वेन तत्कथा नैव प्रमाणभावं भजत इति स्याद्वादागमतश्चझेन न सा प्रतिपादनीया, अत एव " नेवावधारणी भाषां भाषेत" इति सिद्धान्तोक्तमपि सङ्गच्छते । अयश्च निषेधः स्वतन्त्रनयविषय एव, स्याद्वाकवाक्यतापननयवाक्यानां तु परस्परनिरूप्यनिरूपकमावापन्नविषयताकनिराकासाऽखण्डमहावाक्यार्थबोधानुकूलांशबोधजनकतया सुनयरूपत्वादेव तत्कथा नाप्रतिपादनीया, अपेक्षावचनात्मकसुनयवाक्यचलादेव सापेक्षप्रतिनियतधर्मप्रकारकैकधर्मिविशेष्यकबोधद्वारा निर्दष्टस्य लक्ष्यलक्षणादिव्यवहारस्य विशेष्यविशेषणभावादिव्यवहारस्य प्रवृत्तिनिवृत्त्यादिव्यवहारस्य च सिद्धेरिति भावः ।। २५ ॥
यद्वस्तु यद्धान्वितं तद्वस्तु तद्रूपेणैव प्रतिपादयन्तस्सम्यग्वादिनः, न त्वन्यथेति पूर्वोक्तनीत्या जीवाजीवादिनिखिलवस्तु अनेकान्तात्मकतया प्रत्यक्षानुमानागमादिप्रमाणसिद्धमप्येकान्तात्मकतया ये तत्प्रतिपादयन्ति ते मिथ्यावादिन इति न ते यथार्थतस्वमधिगच्छन्तीति प्रतिपादयितुमाह
ण वि अस्थि अण्णवाओ, ण वि तव्वाओ जिणोवएसम्मि।
तं चेव य मण्णंता, अवमण्णंता ण याणंति ॥ २६ ॥ __ण वि अस्थि अण्णवाओ' अत्रापेरेवार्थत्वात्रैवास्ति अन्यवादा, गुणगुणिनोरेकान्तभेदवादः। 'ण वि तबाओ' नाऽपि तद्वादा, तयोरेकान्ताऽभेदवादा, कस्मिन् सिद्धान्त इत्याशङ्कायामाह-'जिणोवएसम्मि' जिनोपदेशे, अर्हत्प्रणीतसिद्धान्त, वस्तुत्वव्यापकत्वादनेकान्तात्मकत्वस्य, वस्तुमात्रस्य कथञ्चित्तदतदुभयधर्मोपेतत्वात् । ' तं चेव य मण्णंता' तदेव अभिनमेव चकारादेकान्तभिन्नमेव वा वस्त्विति मन्यमाना अर्थात् गुणगुणिनावेकान्तेनाभिन्नावेव भिमावेव वेति मन्यमाना ' अवमण्णता' अत्र मननीयं वादिनति शेषा, तथा च मननीयमवमन्यमाना वादिना, 'ण याणंति' न जानन्ति, यथार्थ- तत्त्वमिति शेषः, पारमेश्वरप्रवचनोक्तविषयाऽवगणनाविधायित्वादज्ञा भवन्ति, ये च जिनेन्द्रगदित.
"Aho Shrutgyanam"