________________
सम्मतिः काण्ड ३, गा०. २४ ...
ते दवत्यंतरभूआ गुणा मुत्ता मुत्ता व होजा' ते तव, मत इति शेषः । द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्ता वा भवेयुः, अथवा द्रव्यार्थान्तरभूतास्ते पूर्वोक्तलक्षणलक्षिता गुणा मूर्ती अमूर्ती वा भवेयुः, ते गुणाः किं मूर्ता अमूर्ती वेति भावः । 'जइ मुत्ता परमाणु नत्थि' यदि मूर्ताः यत्तदोर्नित्यसम्बन्धात्तर्हि परमाणवो न सन्ति न भवन्ति, मूर्तिमद्रूपाधापारत्वाद, अनेकप्रादेशिकस्कन्धयत् । अथ यद्यमूर्तास्तहि तेषामग्रहणम् , अमूर्त्तत्वात् , आकाशवदित्याशयेनाह-'अमुत्तेसु अग्गहणं' अत्र सप्तम्याः षष्ठ्यर्थत्वात् अमूर्तानामग्रहणमित्यर्थः, ततो द्रव्यगुणयोः कश्चिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोष स्स्यात्, तथाहि-द्रव्यगुणयोर्यथाक्रममेकानेकप्रत्ययावसेयत्वात्कथश्चिद्भेदः प्रतीयते, कथश्चिदभेदोऽपि, रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनां च द्रव्यात्मकतया प्रतीते, अन्यथा तदभावापतेः ॥ २४ ॥ - एतच विवक्षामात्रेणोच्यते, अन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदाधन्यतरकथाया एवासम्भवाद, न हि चित्रं वस्तु नीलपीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति । एतदेवाह-'सीसमई इत्यादि । यद्वा यद्यप्याईतसिद्धान्तोक्तानेकान्ततत्वाभ्यासजन्यतद्विषयकपरिपुष्टबुद्धीनां सप्तमङ्गयात्मकप्रमाणवाक्यस्येव सप्त. विधजिज्ञासानिवर्त्तकसप्तधर्मप्रकास्कैकर्मिविशेष्यकाखण्डबोधजनकतापर्याप्तिमन्चादुत्सर्गतस्स्याद्वादरूपप्रमाणवाक्यस्य तथाऽनन्तधर्मात्मकवस्त्वेकदेशोऽपि स्याद्वादरूप एवेति हेतो. रितरधर्माप्रतिक्षेपितयाऽन्याशेषदेशसाकाङ्क्षकदेशबोधजनकानां स्याद्वादेकवाक्यतापत्रतत्त अयवाक्यानां चाभिधानमेवोचितम् , ताभ्यामेव यथार्थतत्चाधिगते, संवदति चात्र " प्रमाणनयैरधिगमः।" १-६ इति तचार्थसूत्रमपि, न वितरधर्मानपेक्षितपैकधर्ममात्रप्रतिपादकस्वतन्त्रतत्तनयवाक्यानाम् । एकान्ततचानामसद्रूपत्वेन तत्प्रतिपादकानां तेषां मिथ्यारूपत्वात् , तथापि स्याद्वादवाक्यात्मकप्रमाणवाक्यतजन्याशेषांशविशिष्टपरिपूर्णवस्तुविषय कनिराकासशाब्दबोधात्मकज्ञानविशेष कार्यकारणभावविज्ञानरूपा पा स्याद्वादव्युत्पतिस्वदर्थितया शिष्याणामंशमाहिषु नयवादेष्वप्यपवादतः प्रवृत्तिरुचिव, न हि प्रत्येकतत्तदंश. ज्ञानामावे निखिलांशविशिष्टार्थनानं भवितुमर्हतीत्यशेषांशविशिष्टार्थबोधे एकैकतत्तदंशविष. यकनयज्ञानानामपि हेतुत्वम् । ननु तदितराशनिरपेक्षतसदंशविषयकनयवादाना मिथोविरोधिनां तद्विषयाऽसत्यत्वेनायथार्थज्ञानजनकत्वात्तसतो मिथ्यारूपत्वादसत्यत्वेन तदुक्तयुस्याश्रयणं नोचितमिति चेद , सत्यम् , तथापि " असत्ये वर्मनि स्थित्वा, ततः सत्यं समीहते" इत्यादिन्यायेन शिष्यमतिविस्फारणार्थ तदुक्तयुक्त्याश्रयणमपि न्याय्यम् , एकान्तविषयाऽसत्यत्वेन तत्प्रतिपादकानां सर्वेषां नयवादानां स्वरूपतोऽसत्यत्वेऽपि स्याद्वादव्युत्पादकतया फलतः सत्यवादित्याशयेनाह
"Aho Shrutgyanam"