________________
२८८
सम्मति• काम ३, मा. २३-१४ येन तयोविरोधित्वेऽप्यविरोधित्वम् , मित्रापेक्षया कथश्विद्भेदाभेदयोस्त्वविरोधित्वेऽपि विरोधित्वमम्युपगतम् । किश्च रूपवान् घटा, ज्ञानवानात्मेत्यादिप्रतीतिर्नैवं भवेत् , किन्तु भवन्मते रूपं घटः ज्ञानमात्मेत्यादिप्रतीतिस्स्यात् । अन्यच्च पीतशङ्ख इति भ्रान्तप्रतीतो श्वैत्यानुपलम्भेऽपि तदाश्रयोपलम्भतो जात्यन्धपुंसा सचक्षुःपुंसाऽन्धकारे च रूपाग्रहेऽपि शङ्खस्य त्वचा ग्रहाच्च द्रव्यस्यैव साम्राज्यं किमिति न कल्पयसि । पीतात्मकतयोत्पमा शज एवोक्तभ्रान्तप्रतीतो भासत इति चेत्, न, स्वस्थपुरुषैः श्वैत्यस्यैवोपलम्मात् । भ्रान्त पुरुषापेक्षया पीतात्मकः, स्वस्थपुरुषापेक्षया च श्वैत्यात्मक एवैकदा शङ्ख उत्पन्न इति तून्म. त्तवचनवदुपेक्षणीयमेव, एकस्य शङ्खस्येककालावच्छेदेनोभयात्मकतया केनापि विदुषाऽनभ्यु. पगमात् । तदेवं सिद्धान्तोपनिषद्विचारारूप्रमाणकान्तमनेकान्तवादं स्वीकुरु, परिहर च द्रव्यैकान्तवादमिवोक्तदोषमुद्गरप्रहारभीत्या गुणैकान्तवादमपीत्यले प्रसङ्गानुप्रसङ्गेन ॥ २२ ॥ अथ द्रव्यगुणयोर्भेदैकान्तवादिनो द्रव्यगुणलक्षणानुपपत्तिमुद्भावयन्ति
दव्वस्स ठिई जम्मवि-गमा य गुणलक्खणं ति वत्तव्यं ।
एवं सह केवलिणो, जुज्जइ तं णो उ दवियस्स ॥ २३ ॥ 'दवस ठिई ' द्रव्यस्य स्थितिधौव्यं लक्षणमिति शेषः, यद्वा 'गुणलक्खणं' इत्यस्माद्विच्छिद्य लक्षणमिति सम्बन्धः। जम्मविगमा य गुणलक्खणं ति वत्तवं ' जन्म विगमौ उत्पादव्ययौ च गुणानां लक्षणं गुणलक्षणमिति वक्तव्यं स्यात् । ' एवं सह केवलिणो जुजइ तं' एवं सति, एवमभ्युपगमे सति, केवलिनः करामलकवत्साक्षात्कृतविश्वविश्व. तस्वस्य युज्यते तदेतल्लक्षणम् , तथाहि-केवलिनः केवलज्ञानमुत्पनं सत्क्षायिकत्वात् स्व: रूपतो न व्ययमेतीति तदभिन्नत्वात्तद्रूपेण केवलिनो ध्रौव्यम्-प्रतिक्षणचेतनाचेतनात्मकक्षेयपरिणतिपरावृत्या तद्विषयकं केवलज्ञानमपि प्रतिक्षणं परावर्तत इत्युत्पादव्ययस्वभाव. केवलज्ञानरूपेण तदभिन्नत्वात् केवलिनोऽपि प्रतिक्षणोत्पादव्ययाविति तस्य त्रिलक्षणत्वं घटते 'णो उ दवियस्स' न तु द्रव्यस्याण्वादेर्लक्षणमिदं युज्यते, न ह्यणौ रूपादयो जायन्ते अत्यन्तभिन्नत्वात् गवाश्चादिवत् , अथवा केवलिनोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य, गुणगुणिनोरत्यन्तभेदे सति उत्पादव्ययधोव्यात्मकत्वलक्षणं सत्वं यद्भवतोऽनुमतं तन्न द्रव्ये,तत्र ध्रौव्यस्यैवैकस्य भावात् , नापि गुणे, तत्रोत्पादव्यययोरेव सद्भाबाद,तथा च असन्न किञ्चिल्लक्षणालिङ्गितं भवतीति भवदनुमतोक्तसत्त्वाभावादसतोश्च द्रव्यगुणयोः खरविषाणादेरिव लक्षणाऽसम्भवादिति द्रव्यार्थान्तरभूतगुणवादिनो ब्रुवन्ति ।।२३।। अत्रोत्तरमाह सरि:
दव्वत्थंतरभूया, मुत्तामुत्ता य (व) ते गुणा होना। जह मुत्ता परमाणू, नस्थि अमुत्तेसु अग्गहणं ॥ २४ ॥
"Aho Shrutgyanam"