________________
सम्मति० काण्ड ३, ना० २१
૨૮૭
विशेषस्सच्छत इति कुतो नयनादिसम्बन्धिविशेषजनितसम्बन्ध विशेष कृतो रूपादिविशेषपरिणाम इत्याह-' न उण एयं ' इत्यादि ॥ २१ ॥
नवनेकान्तवादिनां भवतां मतेऽपि रूपरसादेः पद्गुणहानिवृद्धिरूपवैषम्यपरिणतिः कथमुपपन्ना भवतीति पराशङ्कामुपदर्श्य तादृशपरिणत्युपपादनायाह ग्रन्थकारः-
rore विसमपरिणयं, कह एवं होहिइत्ति उवणीयं । तं होह परनिमित्तं, ण वत्ति एत्थत्थि एगंतो ॥ २२ ॥
4
Home ' मण्यते द्रव्यैकान्तवादिना, तेन यद् भण्यते तदाह - " विसमपरिणयं कह एयं होहिह त्ति " विषमपरिणतं कथमेतत् भविष्यतीति । अयम्भावः - शीतोष्णस्पर्श व देकत्रैकदा विरोधादेतदाऽग्रफलादि द्विगुणाद्यनन्तगुणवृद्धिहानिरूपविषम परिणतिपरिणतं कथं भविष्यतीति, एवं परेण प्रेरिते सति तदुपपादनायाह-उवणीयं इत्यादि । 'विसमपरिणई कह एवं होहिइत्ति ' इत्येवं पाठे त्वयमर्थः - शीतोष्णस्पर्शवदेकत्रैकदा विरोधादेकत्रात्रफलादौ विषमपरिणतिः कथमेषा परिदृश्यमाना भवतीति यद्भण्यते परेण तदुपपादनायाह - उबणीयं इत्यादि, उपनीतं उपदर्शितमाप्तेनेति शेषः, तेन स्वगिरा श्रोतृश्रुतज्ञानगोचरीकृतमित्यर्थः, यदुपनीतं तदेवाह - 'तं होह परणिमित्तं तद् वैषम्यं भवति परनिमित्तम्, यथा कारणं तथा कार्यमिति न्यायेन कार्यमात्रे द्रव्यक्षेत्रकालभावानां कारणत्वात् तद्रूपसहकारिवैचित्र्यबलतः कार्यमपि विचित्रभावमवाप्नोतीति तदाऽऽम्रादिफलमपि तेन विषमरूपतया परिणमतीति वैषम्यं परनिमित्तमित्यर्थः ' ण वत्ति एत्थत्थि एगंतो ' न वा ' परनिमित्तमेव ' इत्य. त्रायेकान्तोऽस्ति, उपादानविषया स्वस्यापि कथञ्चिनिमित्तत्वात्, अन्यथा द्विगुणरसादीनां एष एवोपादानाख्याश्रयो न त्वन्य इत्याश्रयनियमो नैव स्यात्, विरोधश्व कालभेदेन देशमेदेन वा निरसनीयः, न चैकत्रैव प्रदेशे द्विगुणरसादित्वे एकगुणरसादिद्वयसमावेशाद्विरोधस्सम्भावनीयः, एकैकगुणापेक्षया द्विगुणपर्यायवतो रसस्य प्रत्येकातिरिक्तत्वेनाविरोधात्, अत एव परापेक्षया षट्स्थानपतितत्वमप्यविरुद्धम्, आपेक्षिकधर्मयो ईस्वत्वदीर्घत्वयोरिव विरोधासिद्धेरिति दिक् । तन्नैकान्तद्रव्याद्वैतवादः सङ्गतिमङ्गति । एतेन अथास्तु aff प्रमाणकोटिं नीत एकान्तगुणाद्वैतवादः, रूपादिगुणैरेव द्रव्यकार्योपपत्तेः, अनेकान्तवादस्य तु विरोधादिदोषाघातत्वेन कथमपि नावकाश इत्यपि निरस्तम् आश्रयाभावे आश्रितानुपपत्तेः, निराधार एवेति चेत्, न, यमहमद्राक्षं तमेव स्पृशामीति प्रतिसन्धानेन तदाश्रयद्रव्यस्यानुभूयमानत्वात् न च तद्विषयो रूपादिरेवेति वाच्यम्, जात्यन्धस्यापि नीलादिप्रत्ययप्रसङ्गेन तस्य द्वीन्द्रियाऽग्राह्यत्वात् न चैकमेव वस्तु नयनेन रूपत्वेन त्वचा - स्पर्शत्वेन गृह्यत इत्यपि वाच्यम्, तयोर्विरुद्धत्वेन तदाश्रयैकवस्तुनोऽभावात् । अथ रूपत्वस्पर्शत्वयोरेक एव धर्मी, विशेधे मानाभावादिति चेत्, आः ! कीदृशमज्ञानविलसितम्,
?
"Aho Shrutgyanam"