________________
सम्मति० काण्ड ३, गा० २०-२१ भवद्धिविनाऽन्यैरसचेतोभिर्वक्तं शक्यते, भवदक्ते पुरुषष्टान्तेऽपि सर्वथैक्ये वयोमेदेनाल्यो महान्वेति विशेषप्रतीतिनैव भवेदित्याशयेनोत्तराद्धेमाह-ण उ इत्यादि-न स्वल्पको महान् वा भवति सम्बन्धतः पुरुषः । अयम्भाव:-पुत्रादिसम्बन्धद्वारेण पित्रादिरेव पुरुषो भवेत् , न स्वल्पो महान् वेति युक्तः, विशेषप्रतिपत्तिलाक्षणिकैत मिथ्यारूपैव वेति चेत्, तर्हि सामान्यप्रतिपत्तिरपि तथास्मिकैर स्यात्, विनिगमनायुक्त्यभावात् । एतेने कस्मिन्नपि पुरुषे पितृपुत्रादिगतपुत्रपित्रादिसंस्कारजनस्वभावतया तादृशसंस्कारलक्षणसहकारिभेदाझिमपुत्रपित्रादिव्यपदेशो भविष्यतीत्यलमेकानेकत्वकल्पनयेत्यपि निरस्तम्, कार्यताभेदेन तनिरूपककारणतास्वभावभेदस्यावश्यकत्वेनैकस्याप्यनेकात्मकत्वात् , अन्यथैकस्याने कसह. कारित्वाऽयोगेन विविक्तव्यवहारोच्छेदस्स्यात्, न चैवं तवेंकत्वेनानुभूयमानस्य घटस्य जलाहरणाधनेककार्यकारित्वेनानेकत्वापत्तिरिति वाच्यम् , तथाऽभ्युपगन्तनयमपेक्ष्येष्टापत्त्या परिहतत्वात् । योऽप्येकस्यानेकरूपताऽऽपादनतर्क उक्तः, सोऽपि तदाभासा, नयसमूहात्मकजैनसिद्धान्ते समभिरूढनयाभिप्रायेण सज्ञाभेदेनैकस्याप्यनेकत्वेन स्वीकृततयेष्टत्वात् ॥१९॥ अत्रैकान्ताभेदवाधारकते
भण्णइ सम्बन्धवसा, जइ संबंधितणं अणुमयं ते ।
नणु सम्बन्धविसेसे, संबंधिविशेषणं सिद्धं ।। २० ॥ 'भण्णइ ' भण्यते--एकान्तामेदवादिना समाधीयते, किं भण्यत इति कर्माकाक्षायामाहसंबंधवसा इत्यादि, 'संबंधवसा जइ' यदि सम्बन्धवशात् सम्बन्धसामान्यवशात , 'संबंधित्तणं अणुमयं ते ' सम्बन्धित्वमनुमतं सम्बन्धित्वसामान्य मनुमतं तर, तदा " नणु संबंधविसेसे संबंधिविसेसणं सिद्धं " ननु सम्बन्धविशेष सम्बन्धिविशेषणं सिद्धम् । सम्बन्ध विशेषद्वारेण सम्बन्धिविशेषोऽपि किं नाभ्युपगम्यते ? इत्यर्थः ॥ २० ॥ स्याद्वादसिद्धान्तवादी समाधत्ते
जुलइ संबंधवसा संबंधिविसेसणं ण उण एयं ।
णयणाइविसेसकओ( गओ)रूवाइविसेसपरिणामो ॥ २१ ॥ ' जुल्लइ संबंधवसा संबंधिविसेसणं' युज्यते सम्बन्धवशात् सम्बन्धिविशेषण, सम्बन्धविशेषप्रयुक्तः सम्बन्धिविशेषोऽपि युक्त एव, यथा पुरुषसामान्यापेक्षया दण्डकुण्डलादि. सम्बन्धविशिष्टः पुरुषो भिन्न एव प्रतीयते, पुरुषसामान्ये दण्डी पुरुष इति कुण्डली पुल इति च प्रतीत्यभावात् , दण्डविशिष्टे कुण्डलविशिष्टे पुंसि चोक्तप्रतीतिमावात् । अत्र भिन्नताप्रयोजको दण्डकुण्डलाद्यात्मकसम्बन्धि विशेषजनितसंयोगसम्बन्धविशेष एवेति सम्ब. न्धविशेषात् सम्बन्धिविशेषोऽस्मन्मते सिद्धत्येवेति सम्बन्धविशेषद्वारेण सम्बन्धिविशेषापादनमप्यस्मन्मतानुकूलमेव, इष्टत्वात् , भवन्मते तु न सम्बन्धिविशेषो नापि सम्बन्ध.
"Aho Shrutgyanam"