________________
२८५
सम्मति काम ३, गा० १८-१९
तथातिरिक्तगुणाभावेऽप्येकस्मिन् द्रव्य एव चरसनाघ्राणत्वक्श्रोत्रात्मकतत्तदिन्द्रियसम्पन्धतश्चक्षुरसनाघ्राणत्वश्रीनेन्द्रियसन्निकर्षजानेकप्रत्यक्षानुकलैकशक्तिमत्वेन रूप-रसगन्ध- स्पर्श-शब्दव्यपदेशगोचरत्वं भविष्यति, किमन्तर्गडुनाऽतिरिक्तगुणेन, न चैकस्यानेकसज्ञाकरणमात्रेण नानात्वम् , एकस्यापि गीर्वाणनाथस्य शक्रेन्द्रपुरन्दरादिशब्दय॑वहियमाणत्वेन मिन्नत्वप्रसङ्गादिति द्रव्यैकान्तवादस्यैव प्रामाणिकत्वेन द्रव्यगुणयोः कथचिनेदवादो मिथ्येत्याशयेन द्रव्याद्वैतवाद्यवाह
जह संबंधविसिट्ठो, सो पुरिसमावनिरहसओ।
तह दव्वमिंदियगयं, रूवाइविसेसणं लहइ ॥१८॥ 'जह सो पुरिसो पुरिसमावनिरहसओ' यथा स पुरुषः देवदत्ताद्याख्यः पुरुषभावेन पुरुषत्वेन निरतिशयः पुरुषरूपतयाऽभिन्नोऽपि सन् ‘संबंधविसिट्ठो' सम्बन्धविशिष्टः पूर्वोक्तपित्पुत्रादिसम्बन्ध निमित्तीकृत्य पुत्रपित्रादिव्यपदेशं लमते, दृष्टान्तमुपदर्य तद्धर्म दार्शन्तिके उपदर्शयितुमुत्तरार्द्धमाह-'तह दवमिंदियगयं स्वाइविसेसणं लहइ' तथा द्रव्यमिन्द्रियगतं रूपादिविशेषणं लभते । अयम्भावः-तथा द्रव्यं द्रव्यस्वरूपतयाऽभिन्नमपि चलरसनादितत्तदिन्द्रियसम्बन्धं निमित्तमवाप्य रूप-रस-गन्धादिव्यपदेशमानं लमते, न चैतावता मिनरूपतामवाप्नोति, यतो न हि शक्रेन्द्रपुरन्दरादिशब्दभेदागीर्वाणनाथस्येव रूपादिशब्दभेदाद् घटादिवस्तुनो भेदो युक्तः, न चैवं देवदत्तादौ पित्रादिवद् घटादौ रूपादेरपि सावधिकत्वप्रसङ्गः, पित्रादिव्यवहारस्येव रूपादिव्यवहारस्य चक्षुरादीन्द्रिय. सम्बन्धापेक्षया सावधिकत्वेऽपि वस्तुनोऽतथात्वात् । न च चक्षु यताविशिष्टद्रव्यस्य रूपादित्वे ग्राह्यतायाः शक्तिरूपाया अतीन्द्रियत्वेन रूपादेरप्यतीन्द्रियतापत्तिः, विशेषणस्याऽ. प्रत्यक्षत्वेऽपि विशेष्यविधया तत्प्रत्यक्षत्वसम्भवात् , शक्तिभेदाच न चाक्षुषादिज्ञानसङ्कर इति दिक् ॥ १८ ॥ अस्यैकान्तद्रव्याद्वैतवादस्याप्रामाण्यज्ञापनाय स्याद्वादसिद्धान्तवाधाह
होजाहि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं । ... ण उ डहरओ महल्लो, वा होइ संबंधओ पुरिसो ।। १९ ॥ __जं दवं दुगुणमहुरं अणंतगुणकालयं तु होजाहि' यद्रव्यं रसतो द्विगुणमधुरं रूपतोऽनन्तगुणकृष्णं तु भवेत् , तत्कुत इति शेषः । अयम्भावः-यदि नामाम्लादिद्रव्यमेव रसनेन्द्रियसम्बन्धवशाद्रस इति व्यपदेशमात्रमासादयेत् , तर्हि तद् द्विगुणमधुरं उपलक्षणन्यायेन त्रिगुणादिमधुरं यावदनन्त गुणमधुरं च रसतः कुतो भवेद , एवं नयनसम्बन्धादेव यदि नाम कृष्णरक्तादिप्रतीतिर्भवेत्तर्हि सङ्ख्यातगुणकृष्णमसङ्खथातगुणकृष्णमनन्तगुण कृष्णं तद् द्रव्यं कृतस्स्यात्, न हीन्द्रिय सम्बन्धमात्रेण पाणहानिवृद्धिरूपवैषम्यप्रतीविर्भवतीति वचो
"Aho Shrutgyanam"