SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ २८४ सम्मति० काम , गा• १६-१७ व्यक्तिरूपतया द्रव्यात्मकत्वेन गुणस्यापि कथञ्चिद्व्यात्मकत्वमिति नैकान्तभिन्मगुणसिद्धेश्वकाश इति सिद्धम् ॥ १५ ॥ एवं द्रन्यपर्याययोर्भेदैकान्तप्रतिषेधे सत्पमेदसिद्धावपि तद्दामार्थ सोपनयमुदाहरणममेदैकान्तवाचाह एयंतपक्खवाओ, जो उण दळव-गुण-जाइभेपम्मि । अह पुष्वपडिकुडो, उयाहरणमित्तमेयं तु ॥ १६ ॥ __ " अह दहगुण-जाइमेयम्मि" अथ द्रव्य-गुण-जातिमेदे द्रव्य-गुणक्रियाभेदेषु, 'जो उण एयंतपक्खवाओ' यः पुनरेकान्तपक्षवाद एकान्तमेदाभ्युपगमवादः, यत्तदोनित्यसम्बन्धात् स यद्यपि 'पुवपडिकुट्ठो' पूर्व प्रतिक्रुष्टः पूर्वमेव प्रतिक्षिप्तः, भेदैकान्तग्राहकप्रमाणाऽभावात् , अभेदग्राहकस्य च प्रमाणस्य पूर्वमेव प्रदर्शितत्वात् , तथाप्येकान्तामेदवाददृढीकरणार्थ " उयाहरणमित्तमेयं तु" उदाहरणमात्रं दृष्टान्तमात्रमेतत् प्रदर्यते ॥१६॥ ... अत्र द्रव्यव्यतिरिक्तं गुणकर्मादि किञ्चिन्नास्ति, रूपरसादयो द्रव्यद्वारेणैवोपलब्धिपथमायाता द्रव्यत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरसनादिग्रहण भेदात्तु रूपरसादिपरिणतयो द्रव्यस्य भियन्ते, पितृपुत्रमातुलाधने कसम्बन्धभेदादेकस्यैव पुंसः पुत्रपित्रादिनानापरिणतिवत्, यथैकस्यैव जिनदत्तादेर्जन्यजनकत्वायनेकसम्बन्धापेक्षाः पुत्रपित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात्पुरुषवस्तुनोऽर्थान्तरभूतं पुत्रत्वं पितृत्वं वा नामार्थो जात्यन्तरमस्ति, पुरुषवृत्तिमात्रत्वात् , तथा द्रव्यमपि चक्षुर्ग्रहणादिविषयभूयमासादयद्पादिव्यपदेशमनेकमासादयति, अतो रूपरसादयो द्रव्यादनान्तरम् , कर्मापि विस्रसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिव्यमानो द्रव्यमेवेत्याशयं मनसि धृत्वा एकान्तद्रव्याऽभेदवादी पूर्व दृष्टान्तमेवाह पिउ-पुत्त-णतु-भव्वय-( भाणिज्न )-भाऊणं एगपुरिससंबंधो। ण य सो एगस्स पियत्ति सेसयाणं पिया होह ॥ १७ ॥ 'पिउ-पुत्तेत्यादि'-पितृ-पुत्र-नप्त-मागिनेय-भ्रातृणामेकपुरुषसम्बन्धः । अत्र षष्ठी. विभक्तेस्तृतीयाविभक्त्यर्थकत्वात् पित-पुत्र-नप्त-भागिनेय-भ्रातृमिरेकपुरुषस्य सम्बन्धः, पद्वा पित-पुत्र-नप्त-भागिनेय-भ्रातृणां एकपुरुषेण सह संसा, अत्र 'भवय' इति स्थाने 'भाणिज' इत्यपि पाठः । अयम्भावः-यथै कस्मिन्नेव देवदत्तादिपुंसि स्वपिटपुत्रपौत्रादिसम्बन्धतः पुत्रपित्राधनेकव्यपदेशानुकूलैकशक्तिमहिम्ना पुत्रपितृपितामहादिव्यपदेशो भवति । न च पुत्रादिसम्बन्धभेदेन भिन्नत्वम् , एकस्याप्यनेकत्वप्रसङ्गात् , न च पुत्रोत्पच्या तत्सम्बन्धतस्स एकस्य पितेति शेषाणामपि पिता भवतीत्याह-ण य सो इत्यादि ।। १७ ॥ "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy