________________
सम्मति० काम ३, गा• १५
२८३ ताबद्गुण इति, तत्र गुणशब्दस्यैतारताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मवाचकस्वादिति । अत्र 'न उ गुणो त्ति' इति 'ण य गुणो ति' इत्यपि च पाठः । उक्तव्यपदेश एतावताऽधिको न्यूनो वा भाव इति गणितशास्त्रधर्मवाचकशब्देनैव भवति, न तु गुणगुणार्थिकनयप्रतिपादनाभिप्रायेण, येन च रूपेण विभिन्नमूलव्याकरणिनयग्राह्यता तेनैव रूपेण विभागः, अन्यथा विभागस्य सम्प्रदायविरुद्धत्वात्, अत एव "गुणपर्यायवद्रव्यम्" ५-३७ इति तत्वार्थसूत्रे गुणपर्यायपदाम्यां युगपदऽयुगपदाविपर्यायविशेषोपादानेऽपि न द्रव्यत्वेन गुणत्वेन पर्यायत्वेनेति त्रैविध्येन विभाग इति भावः ॥ १४ ॥ दृष्टान्तद्वारेणामुमर्थ दृढीकर्तुमाह
जह दससु दसगुणम्मि य, एगम्मि दसत्तणं समं चेव ।।
अहियम्मि वि गुणसद्दे, तहेव एयंपि पट्टव्वं ॥ १५॥ " जहा दससु एगंमि य" यथा दशसु, द्रव्येष्धिति शेषः, एकस्मिश्र, द्रव्य इति शेषा, तद्विशिनष्टि-'दसगुणम्मि' दशगुणे दशगुणिते “ अहियंमि वि गुणसद्दे " अधिकेऽपि गुणशन्दे, गुणशब्दातिरेकेऽपि, “दसतणं समं चेव" दशत्वं समं चैव, चस्य पादपूरणार्थकस्वात् सममेव । दृष्टान्तमुपदर्य दार्शन्तिके उपनयमाह-" तहेव एवं पि दट्ठवं" तथैवतदपि द्रष्टव्यम् , तथैवैतदपि न भिद्यते, परमाणुरेकगुणकृष्णादिरिति, एकादिशब्दाधिकगुणशब्देनापि तदधिकार्थाऽप्रतिपादनादिति द्रष्टव्यम् , तथा च तेनापि नातिरिक्तगुणसिद्धिरिति भावः । न चैवं गुणानां पर्यायानतिरेके वाचकचक्रवर्तिसूत्रं " गुणपर्यायवद् द्रव्यं " इति विरुध्यते, युगपदयुगपदाविपर्यायविशेषप्रतिपादनार्थत्वात्तस्य, सहभाविधर्मवाचकगुणशब्दसममिव्याहतस्य पर्यायशब्दस्य क्रमभाविधर्मवाचकस्यापि ' गोबलीवर्द 'न्यायेन तदतिरिक्तधर्मप्रतिपादकत्वे दोषाभावात् , न हि काल्पनिको गुणपर्याययो दो वास्तवं तदभेदं विरुणद्धि, कल्पनाबीजं च तत्र तत्र प्रदेशे व्युत्पत्तिविशेषाधानमेव ।। अत एव
गुणाणमासओ दव्वं, एगदम्वस्सिया गुणा।
लक्खणं पजवाणं तु, उभओ अस्सिया भवे ।। इत्युत्तराध्ययनाष्टाविंशतितमाध्ययनषष्ठगाथावचनं 'दबनामे गुणनामे पजवणामे' इत्यायनुयोगद्वारवचनं च शिष्यव्युत्पत्तिविशेषाय काल्पनिकगुणपर्यायभेदाभिधानपरमेत्र, स्वाभाविकतनेदाभिधानपरत्वे तु गुणार्थिकनयप्रसङ्गस्स्यात् । ' न च नाणदंसणट्टयाए दुवे अहं' इत्यादि भगवतीस्त्रवचनमेव गुणार्थिकनयप्रतिपादकमित्याशक्षितव्यम् , यत उक्तसूत्रवचनस्य द्रव्यार्थिकनयाभ्युपगतस्याऽऽत्मद्रव्यत्वरूपेणकस्यात्मनः पर्यायार्थिकनयमतेनैव ज्ञानदर्शनादिभेदेन द्वैविध्यादिप्रतिपादनपरत्वान्भातो गुणार्थिकनयप्रवृत्तिर्युक्तेति । तदेवं गुणस्य पर्यायान्तर्भावण पर्यायस्य च संज्ञासङ्ख्याऽर्थक्रियादिभेदेन कथश्चिद्भिनत्वेऽपि
"Aho Shrutgyanam"