________________
૨૮૨
सम्मति• काड ३, गा० १३-४ प्रवत्तिभावात् पर्यायसामान्योक्तावपाते, न च गुणशब्दस्य पर्यायसामान्य एव शक्तिः कल्पनीया, तत्र हेतुमाह-पअवणयदेसणा जम्हा' यस्मात् पर्यायनयदेशना, पर्यायार्थिकनयद्वारेणैव भगवता देशना कृता, न तु गुणार्थिकनयद्वारा, अतो व्युत्पत्तिनिमित्ततौल्येऽपि गुणपर्यायशब्दयोस्सामान्यविशेषभावापनप्रवृत्तिनिमित्तभेदान पर्यायशब्दत्वमिति । अयम्भाव:-गवि गवये च व्युत्पत्तिनिमित्तस्य गमनाश्रयत्वस्येव गुणे पर्याये च व्युत्पत्तिनिमित्तस्य ज्ञानत्वस्य समानतया विद्यमानत्वेऽपि गुणशब्दस्य पर्यायविशेषत्वावच्छिन्नार्थ. कत्वेन तस्य पर्यायविशेषत्वप्रवृत्तिनिमित्तकत्वम्, पर्यायशब्दस्य च पर्यायत्वावच्छिन्नार्थकत्वेन तस्य पर्यायसामान्यत्वप्रवृत्तिनिमित्तकत्वमित्येवं तयोः गोगवयशब्दयोरिव प्रवृत्ति निमित्तभेदान्न पर्यायशब्दत्वमिति ॥ १२ ॥ . ननु पर्यायाणां प्रतिक्षणपरावर्तनस्वभावत्वात् पर्यायशब्दः क्रमभाविधर्मवाचक एव, गुणानां यावद्र्व्यावस्थायित्वाद् गुणशब्दश्च सहभाविधर्मवाचक एव, तथा च गुणाः पर्यायेभ्योऽतिरिच्यन्ते, पर्यायातिरिक्तगुणाभिधानान्यथाऽनुपपच्या च गुणार्थिकनयोऽपि भगवताऽर्थादुपदिष्ट एवेत्याशङ्का प्रतिपादयति
जंपंति अस्थि समए, एगगुणो दसगुणो अणंतगुणो ।
रूवाइयपरिणामो, भण्णह तम्हा गुणविसेसो ।। १३ ॥
पंति' जल्पन्ति, प्रतिपादयन्ति द्रव्यगुणान्यत्ववादिन इति शेष:, कि जल्पन्तीति कर्माकाङ्क्षायामाह-' अस्थि समए, एगगुणो दसगुणो अणंतगुणो' इति । अस्ति विद्यत एव, समये सिद्धान्ते, 'एगगुणकालए दुगुणकालए' इत्यादिवचनात् एकगुणकालः दशगुणकालः सङ्ख्यगुणकालः असङ्खथगुणकालः अनन्तगुणकाल इत्यादि व्यपदेशोरूपादौ, ततः किमित्यत आह-'रूवाइयपरिणामो, भण्णइ तम्हा गुणविसेसो' इति, तस्मादूपादिकपरिणामो गुणविशेष एवेति भण्यते, ततोऽस्ति गुणार्थिकोऽपि नयः, उपदिष्टश्च भगवतेति नात्रापसिद्धान्तत्वप्रसङ्गः ॥ १३ ॥ अत्राह सिद्धान्तवादी
गुणसहमंतरेणा-वि तं तु पनवविसेससंखाणं ।
सिजह णवरं संखा-णसत्थधम्मो तइ (न उ) गुणोत्ति ॥१४॥ "गुणसहमंतरेणावि तं तु पजवविसेससंखाणं सिजइ" तत्तु एकगुणकाल इत्यादि प्रागुक्तवचनं तु, गुणशब्दमन्तरेणापि गुणत्वावच्छिन्नरूपरसादिगुणात्मकार्थवोधानुकूलशक्तिमद्गुणशब्दं विनाऽपि, पर्यायविशेषसङ्कथानं पर्यायविशेषसङ्ख्यावाचकं सिद्ध्यति, न त्वतिरिक्तगुणगुणार्थिकनयप्रतिपादनपरम् , नन्वेवं तयंकगुणकालः दशगुणकाल इत्यादिव्यपदेशः किं निवन्धन इत्यत आह-वरं संखाणसस्थधम्मो तइगुणोत्ति, नवरं सङ्खथानशास्त्रधर्म:
"Aho Shrutgyanam"