________________
सम्मति० का ३, गा० १०-१२
२८१
प्रकारत्रयेण, यदि च गुणोऽपि पर्यायातिरिक्तस्स्यात्तदा तद्राहकतृतीयगुणास्तिकन योऽपि त्रिलोकाधिपतिप्रणा प्रवचनीयस्स्यादित्याह-
दो उण णया भगवया, दव्वट्ठियपज्जवट्टिया विद्यया । - एत्तो य गुणविसेसे, गुणद्वियणओ वि जुज्जंतो ॥ १० ॥
'
दो उण गया भगवया ' द्वौ पुनः नयौ द्वावेव मूलनयौ भगवता ' दवट्ठिय-पवडिया नियया' द्रव्यार्थिकपर्यायार्थिको नियमितौ 'एत्तो य गुणविसेसे ' एतस्माच्च पर्यायादधिके गुणविशेषे ग्राह्मे सति तद्राहकः 'गुणद्वियणओ वि जुअंतो ' गुणार्थिकनयोऽपि युज्यमानः, नियमयितुं स्यादिति शेषः । अन्यथा नयानामव्यापकत्वं स्यात्, केवलिभगवतो वा तदपरिज्ञानं प्रसज्येत ॥ १० ॥
न च भगवता गुणार्थिकनयोऽपि नियमितः, किन्तु पर्यायार्थिकनय एवेत्याहजं च पुण अरिहया तेसु तेसु सुत्तेसु गोयमाईणं ! पावसण्णा णिया, वागरिया तेण पजाया ॥ ११ ॥
जं च पुण अहिया तेसु तेसु सुत्तेसु' यच्च पुनरर्हता तेषु तेषु सूत्रेषु ' वष्णपजवे हिं गंधपखवेहिं' (भग० सू० शत० १४; उ० ४) इत्यादिना 'पजवण्णा नियया' पर्यायसंज्ञा नियमिता, वर्णादिष्विति शेषः 'गोयमाईणं वागरिया' गौतमादिभ्यो व्याकृता व्याख्याता 'तेण पजाया' तेन पर्यायाः, ततः पर्याया एव वर्णादयो न गुणा इत्यभिप्रायः ॥ ११ ॥ अथ तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादित्याशङ्कायामाह -
परिगमणं पज्जाओ, अणेगकरणं गुणत्ति तुल्लत्था ।
तह वि ण गुणत्ति भण्णइ, पज्जवणयदेखणा जम्हा ॥ १२ ॥
+
"
• परिगमणं पञ्जाओ' परि - समन्तात्सहभाविभिः क्रमभाविभिश्च भेदैर्वस्तुनः परिणतस्य गमनं 'ये गत्यर्थास्ते ज्ञानार्था' इति वचनात् परिच्छेदो यः स पर्याय: । नन्वेवं सति शास्त्रान्तरे पर्येत्युत्पादविनाशौ प्राप्नोतीति पर्याय इति व्युत्पच्योत्पादविनाशशाली वस्त्वंश एव पर्याय: प्रतिपादित इति कथमनेन सह न विरोध इति चेत्, मैवम् अत्र विषयविषयिणोरभेदविवक्षणेन तथोक्तत्वात् । " अणेगकरणं गुणत्ति अनेककरणं गुण इति अनेकरूपतया वस्तुनः करणं 'करोतेर्ज्ञानार्थत्वात् ' परौ भुवोऽत्रज्ञाने' इति ज्ञापकात् ' धातूनामनेकार्थत्वात् ज्ञानं, पूर्ववद्विषयविषयिणोरभेदादेव गुणः, पर्यायस्य परिगमणमिति गुणस्यानेककरणमिति च व्युत्पत्तिनिमित्तमपेक्ष्य ' तुलत्था ' तुल्यार्थी गुणपर्यायशब्दौ 'वह विण गुणचि मण्णइ ' तथापि न गुणा इति भण्यन्ते, पर्याया गुणशब्दवाच्यत्वाद्रूपादिवगुणा एवेति नाभिधीयन्ते पर्यायविशेषवाचकस्य गुणशब्दस्य पर्यायविशेषोक्तावेव
4
३६
"
"Aho Shrutgyanam"