________________
૨૮૦
सम्मति ०
१० का ३, गा० ९
सङ्ख्यादिप्रत्ययव्यवहारौ, द्रव्ये तु स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धेनैवेत्येवं कुतो न स्यात्, अन्यथा द्रव्य एव साक्षात्सम्बन्धेन सङ्ख्यादिवत् सत्ता वर्त्तते, गुणादौ सद्बुद्धिस्तु परम्परासम्बन्धेनैवेत्येवं कल्पनालाघवात् किमर्थं नाङ्गीक्रियते । किश्व गुणस्य सर्वथा द्रव्याद्वित्वाम्युपगमेऽवयवगुणानामवयविनि स्त्रस जाती योत्कृष्ट गुणारम्भकत्वनियमेनाऽवयवद्वय उत्कृष्टगुरुत्वादवयविन्य प्युत्कृष्टतर गुरुत्वोत्पत्तेरवयवस्यापि तदानीं सच्चेन तद्गुरुत्वसFare नमनोनमनादिलिङ्गकानुमानादिना द्विगुणगुरुत्वोपलब्धिप्रसङ्गः, तदानीमवयवानयुपगमे समवायिकारणनाशात् कार्यनाशोपगमेन घटस्यापि नाशप्रसङ्गः । अथावयवोत्कृष्टगुरुत्वापेक्षयाऽवयविन्यपकृष्टगुरुत्वेऽवयविनस्तत्तद्व्यक्तित्वेन कारणत्वमिति विशेषसामग्रीबलादवयविन्यपकृष्ट गुरुत्वमेवेत्यतो नोक्तदोष इति चेत्, मैवम्, अतिगौरवात्, गत्यन्तरे सति विशेषकल्पनाया अनवकाशत्वाच्च । तथा चेदमत्र तत्रं वस्तु द्रव्यपर्यायात्मकम्, तत्र कालत्रयावच्छिन्नं पूर्वोत्तरपर्यायेष्वनुगतबुद्धिग्राह्यं परिणामिकारणलक्षणं द्रव्यम्, व्यावृत्तबुद्धिप्राय पर्यायो द्रव्यविकारात्मक परिणामलक्षणः, स च क्रमभाविसहभाविभेदेन द्विविधः, तत्र क्रमभाविनः पर्याय इति सहभाविनो गुण इति च संज्ञा क्रममाविपर्यायाः पुद्गलादीनां नीलादयः, सहभाविगुणा रूपादयः, यतः पुद्गला नीलादिपूर्वपर्यायं परिहृत्यानीला भवन्तोऽपि न हि कदाप्यरूपिणो भवन्ति, स्वस्वरूपहानिप्रसक्तेः उक्तश्च श्रीमहावीरस्तवे खण्डखाद्यापरनामके 'स्वद्रव्यपर्यायगुणानुगता हि तचेत्यादिश्लोकटीकायां स्वद्रव्यं घटादि, तगुणो रूपादिः, तत्पर्यायो रक्तत्वादिरिति । आत्मनि क्रमभाविपर्यायाश्रोपाधिजन्य - सुखदुःखहर्षविषादघटादिज्ञानादयः, सहभाविगुणास्तूपयोगादयः, अत एव तच्चार्थश्लोकवार्तिके पञ्चमाध्यायद्विचत्वारिंशत्तमसूत्रटीकायां - ' पर्याय एव च द्वेधा, सहक्रमविवर्त्तित: ' इत्युक्तम् " विशेषोऽपि द्विरूपः गुणः पर्यायश्च ॥। ५-६ ।। गुणः सहभावी धर्म:, यथाss. त्मनि विज्ञानव्यक्ति - शक्त्यादिरिति ॥ ५-७ ॥ पर्यायस्तु क्रमभावी, यथा तत्रैव सुखदुःखादिरिति ॥ ५-८ ||" इति प्रमाणनयतच्चालो कालङ्कारपञ्चमाध्याय सूत्रत्रयमप्युक्तमेवार्थं संवदति, यतो विशेषो भेदः पर्याय इत्येतेषां पर्यायशब्दत्वेनात्र विशेषपदस्य पर्यायत्वावच्छिन्नपर्यायसामान्यार्थकत्वात्तद्भेदोक्त्या पर्यायत्वावच्छिन्नपर्यायसामान्यस्यैव भेदद्वयोक्तिः प्रतिपादिता | गुणपर्याययोश्च पर्यायत्वेन रूपेणैक्येऽपि सहभाविनो गुणाः, क्रमभाविनश्व पर्याया इति लक्षणभेदेन कथञ्चिद्भेदमभिप्रेत्यैव " गुणपर्यायवद्रव्यम् " ५-३७ । इति पञ्चमाध्याय सप्तत्रिंशत्तमसूत्रं भगवतोमास्वातिना प्राणायि, तत्र गुणपदसाहचर्यात्पर्यायपदेन क्रममा विलक्षणपर्यायविशेष एव गृहीतः, न तु पर्यायत्वावच्छिन्नपर्यायसामान्यमिति सिद्धमेतत् वस्तुतो गुणाः पर्यायभेदरूपत्वात्तदन्तर्गता एव, न तु तद्व्यतिरिक्ता इति ॥ ९ ॥
"Aho Shrutgyanam"
तथा च द्रव्यार्थिकनयगोचरद्रव्यत्वेन पर्यायार्थिकनय विषयपर्यायत्वेन द्रव्यं पर्यायाश्रेति विभागो युक्तः, न तु द्रव्यं गुणाः पर्यायाश्चेति द्रव्यत्वेन गुणत्वेन पर्यायत्वेनेति