________________
सम्मति० काण्ड ३, गा.
२७९ एवार्थे प्रयोगाईः, न तु पर्यायात्मकेऽर्थे इति तत्र किं पारीक्ष्यमिति चेत् , तम विद्वन्मनो रञ्जकम्, उक्तहेतुद्वयस्य कथचिद्भिनत्वेनैव सह व्याप्यत्वेन तेन कश्चिद्भेदसाधने सिद्धसाधनात् । एकान्तभेदे साध्ये तस्य कचिदप्यप्रसिद्ध्या व्याप्यत्वाऽसिद्धेः । न च रूपवान घटः, ज्ञानवान् आत्मेत्यादिप्रतीत्या भेदे मतुष्प्रयोगाद् गुणगुणिनोरेकान्त मेदसिद्धेनॊक्तदोष इति वाच्यम् , नित्ययोगेऽत्र मतुबिधानात् , द्रव्यगुणयोस्तादात्म्यात् सदाऽविनिर्भागवर्तित्वात् , अन्यथा प्रमाणाधोपपत्तेः । संज्ञा-सङ्ख्या-स्वलक्षणार्थक्रियामेदाद्वा कथञ्चित्तयोरमेदेऽपि भेदसिद्धेर्न मतुबनुपपत्तिः । किञ्च नित्ययोगविहितमतुष्प्रत्ययार्थस्य नित्यसम्बन्धस्य संसर्गविधया कथञ्चिद्भेदाभेदात्मकस्यैव भानम् , एकान्तभेदे सम्बन्धाऽयोगात् , अन्यथा हिमवद्विन्ध्याचलयोरपि संयोगसम्बन्धस्स्यात् । अथ व्यवधानाभावस्य संयोगकारणस्याभावान तदुभयसंयोग इति चेत, तर्हि ययोस्संयोगस्तयोस्संयुक्ततया परिणतिभावेन तद्रूपेण तयोः कथञ्चिदभेदेनैवोपपत्तेनैकान्तभेदः प्रमाणविषयतामास्कन्दति, नन्वेकान्तभिभयोरपि गुणगुणिनोस्समवायसम्बन्ध इति रूपवान् घट इत्यादिप्रतीतिस्समवायेनैवोपपत्स्यत इति चेत्, मैवम्, समवायस्य निरस्तत्वात् , सम्बन्धान्तरस्य चाऽभावात् , किञ्च गुणो धर्मितया पर्यायात्मकोऽभिप्रेतः, किंवा तदनात्मकः, नाद्यः, यतः पर्यायस्य कथञ्चिद्रव्यानतिरिक्तत्वेन तदात्मकगुणस्यापि द्रव्याऽव्यतिरिक्तवाद्वाधा, नान्त्यः आश्रयासिद्धेः, एतेन द्रव्यं गुणादिभ्यो भिन्नं गुणववादित्यनुमानं निरस्तम् , रूपादेरपि सङ्ख्यात्मकगुणवत्तया प्रतीयमानत्वेन तत्र व्यभिचारात् । एक रूपमत्र द्वे रूपे पहूनि रूपाणि इत्यादिप्रतीतिर्धान्त्यात्मिकेति चेत्, तहिं पृथिव्यादौ कथमभ्रान्तिरूपा सेति वक्तव्यम् । तत्र बाधकामावादिति चेत् , तुल्यमन्यत्रापि ! गुणस्य गुणवचायां द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्षः १-१-१६ इति गुणलक्षणमेव वैशेषिकसूत्रोक्तं बाधकमिति चेत् , न, अगुणवानिति लक्षणांशस्याद्याप्यसिद्धेः, संख्यावतया प्रतीतेर्विद्यमानत्वात् । असौ भ्रान्तिरिति चेत्, तर्हि परस्पराश्रयः, तथाहि-तस्या भ्रान्तित्वे लक्षणांशस्य सिद्धेविशिष्टलक्षणसिद्धिः, तत्सिद्धौ च बाधकबलात् सङ्ख्याप्रतीतेान्तित्वसिद्धिरिति । न च लिङ्गान्तराद्र्पादिष्वगुणवचसिद्धेस्तस्या भ्रान्तित्वमिति नान्योन्याश्रय इति वाच्यम्, तत्रोपन्यस्यमानदृष्टान्तस्यापि सङ्ख्यावत्तया प्रतीयमानत्वेनागुणवचासिद्धेः। सङ्ख्यायामनवस्थितिप्रसङ्गेन निस्सङ्खथत्वव्यवस्थितावगुणवचसिद्धेस्सैव दृष्टान्त इति चेत् , न, तत्रापि पृथक्वादिप्रतीतेस्तसिद्धरयोगात् । पृथक्त्वस्यापि च सङ्ख्यावत्वेन प्रतीतेन तदपि दृष्टान्तीकत्तुं योग्यमिति । न च द्रव्य एव सङ्कथास्वीकारे सङ्खथैकार्थसमवायसम्बन्धेन रूपादावपि सङ्ख्याप्रत्ययव्यवहारोपपत्तौ कल्पनालाघवाद् गुणे सङ्ख्याधस्वीकार इति वाच्यम् , घटे रूपरसगन्धस्पर्शा इति बहुत्वप्रतीतेरनुदयप्रसङ्गात् , आश्रयस्यैकत्वात् । व्यासज्यवृत्ति. संयोगादावेकत्वप्रत्ययानुदयप्रसङ्गाच, आश्रयस्यानेकत्वात् । किश्च गुण एव साक्षात्सम्बन्धेन
"Aho Shrutgyanam"