________________
सम्मति० काण्ड ३, गा० ८-९
अथ द्रव्यगुणयोः कथञ्चिद्भिन्नाभिन्नतयैव प्रतीतेस्तावने कान्तालिङ्गितावेवेति यजिनानुगैरुररीकृतं तदसहमानानां मतमुत्थापयति-
२७८
रूवरसगन्धफासा, असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया, गुणत्ति ते केइ इच्छंति ॥ ८ ॥
46
4
' रूपरसगन्धस्पर्शाः
64
रूवरसगन्धफासा >> असमाणग्गहण लक्खणा जम्हा यस्मादसमानग्रहणलक्षणाः । यमहमद्राक्षं तमेव स्पृशामीत्यनुसन्धानाद् दार्शनं स्पार्शनश्च घटादिद्रव्यमित्यादिव्यवहाराच द्वीन्द्रियग्राह्यत्वं घटपटादिद्रव्यस्य रूपरसादेवक्षुरादिप्रतिनियतेन्द्रियजन्यप्रत्यक्षगोचरत्वमित्येवं द्रव्याद्गुणा असमानग्रहणाः, तथा संयोगजनकतावच्छेदकजातिमत्रं विभागजनकतावच्छेदकजातिमचं जन्यसञ्जनकतावच्छेदकजातिमत्त्वं वा द्रव्यस्य लक्षणम्, द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमध्वम्, सामान्यवच्चे सति कर्मान्यत्वे च सति निर्गुणत्वं वा गुणस्य लक्षणमित्येवं द्रव्याद्गुणा अपमानलक्षणाः, संवदति क्रियागुणवत्समवायिकारणम् ” । १-१- १५ इति द्रव्यलक्षणम् । द्रव्याश्रय्य - गुणवान् संयोगविभागेष्व कारणमनपेक्षः ।। १-१- १६ इति च गुणलक्षणम् । द्रव्यगुणभिनलक्षणप्रतिपादनपरं वैशेषिकसूत्रद्वयमपि । तथा च गुणा द्रव्याद्भिन्ना भिन्नप्रमाणग्राह्यस्वाभिलक्षणत्वाच्च, यो यस्माद् भिन्नप्रमाणग्राह्यो भिन्नलक्षणांश्च स तस्माद्भिन्नः, यथाजीवद्रव्यादजीवद्रव्यं घटादात्मा वेत्यनुमानेन गुणानां द्रव्याद्भिन्नत्वे सिद्धे यत्स्यात्तदाह4 तम्हा दवाणुगया गुणत्ति' तस्माद्द्रव्यानुगता गुणा इति द्रव्यमनुगता द्रव्यानुगता द्रव्याश्रिता गुणा इत्यर्थः, ' ते केt इच्छन्ति ' ते केचन वैशेषिकाद्यास्स्वयूथ्या वा सिद्धान्ततत्रमजानाना इच्छन्ति-अभ्युपगच्छन्ति ॥ ८ ॥
चात्र
तन्मतनिशचिकिर्षयाऽऽह—
"
दूरे ता अण्णत्तं, गुणसद्दे चैव ताव पारिच्छं । किं पज्जवाहिए होज, पज्जवे चेव गुणसण्णा ॥ ९ ॥
66
दूरे ता अण्णत्तं ' दूरे तावद् अन्यत्वं, गुणगुणिनोरेकान्तेन भिन्नत्वम्, असम्भावनीयमिति यावत्, 'गुणसद्दे चैव ताव पारिच्छं " गुणशब्द एव तावत्पारीक्ष्यम्, कथं पारीक्ष्यमित्याशङ्कायां तत्स्वरूपमाह - " किं पञ्जवाहिए होज पजवे चैत्र गुणसण्णा " किं पर्यायाधि के पर्यायाद्भिने गुणसंज्ञा गुणशब्दो भवेत्, किं वा पर्याय एव, अत्र 'पञ्जवे वा विगुणसण्णा' इत्यपि पाठः । वा विकल्पे, उत पर्यायेऽपि गुणसंज्ञा गुणशब्दः प्रवर्त्तते, अर्थात् पर्यायाद्भिने गुणात्मकेऽर्थे गुणशब्दः प्रवर्तते, किंवा पर्याय एव । गुणशब्दवाच्यः पर्यायाद्भिन्नो गुणात्मकोऽर्थः किं वा पर्याय एवेति विवेचनार्हमिति भावः । ननु पूर्वो केन भिन्नप्रमाणग्राह्मत्वभिन्नलक्षणत्वहेतुद्वयेन गुणा द्रव्याद्भिन्ना इति सिद्धे गुणशब्दः गुणात्मक
" Aho Shrutgyanam"