________________
सम्मति० काड ३, गा० .
२७७ 'कोवं' कोपपरिणामं ' उपायन्तो' स्वस्मिन् स्वयमुत्पादयन् उपनयन् वा 'पुरिसो' पुरुषः 'जीवस्स कारओ होइ' जीवस्य परभवप्रादुर्भावपरिणतिविशिष्टस्य कारको निर्वर्त्तको भवति, कोपपरिणतेः कर्मवन्धहेतुत्वेन तप्रिमिसकर्मण उपादानात् , तेन कथञ्चिद्भेदाभेदो. भयं व्यवस्थापयितुमुत्तरार्द्धमाह-'तत्तो विभएयद्यो' कोपपरिणतिपरिणतश्च पुरुषः ततः परभवोत्पद्यमानजीवाद् विभजनीयः, 'तत्तो वि य भइयो' इत्यप्यत्र पाठः, ततोऽपि च भजनीयः, कथश्चिद्भिन्नो व्यवस्थापनीयः, पूर्वस्य कारणत्वेनोत्तरस्य च कार्यत्वेन कार्यकारणरूपयोस्तयोर्मुत्पिण्डघटवत्कथनिद्भेदात् । एकान्ताऽभेदे कार्यकारणभाव एव न स्यात, मेदे सत्येव तद्भावात् । अथ वीतरागस्य जन्म न भवति किन्तु सरागस्यैव, संवदति चात्र "वीतरागजन्मादर्शनात् । ३।१।२५ इतिन्यायसूत्रम् , जातमात्रस्य रागश्च पूर्वानुभवं विना नेति । स्तन्यपानमिष्टसाधनमित्यादिस्मरणतः पूर्वभवीयानुभवतद्भवीयतत्स्मरणकर्तुर्जीवस्यैकतयैव सिद्धेः कथं भवभेदेन तद्भेद इति चेत् , मैवम् , भवरूपविशेषणमेदेन कथश्चित्तविशिष्ट मेदस्याप्यनुभवसिदत्वात् । अथ विशेषणमेदादेव विशिष्टयोआंदो न तु मुख्यवृश्येति चेत् , न, विशेषणविशेष्यभावस्य हि कथञ्चिद्भेदाभेदवाद एव घटमानत्वेन विशेषणभेदे तदभिमतद्वतोरपि कथाश्चिद् मेदो मुख्यवृत्त्यैवाश्रयितव्यः, न हि निमित्तभेदाश्रयणे मुख्यऐत्तिहीयते, येन विशेषण मेदाद्विशिष्ट भेदाभ्युपगमे सा न स्यात् , अन्यथा घटपटादीनामपि मुख्यतया मेदो न स्यात् , सत्चद्रव्यत्वादिनाऽभेदभाजां तेषामपि स्वस्वासाधारणधर्मरूपनिमित्तभेदेनैव भेदात् , तस्माद्भवभेदेनापि मुख्यवत्यैव तद्विशिष्टभेदोऽभ्युपगन्तव्यः । किश्च कारणं कार्याकारेण पूर्वस्वरूपं परिहायैव परिणमति, अन्यथा कार्यकारणावस्थाद्वयसङ्कीर्णताप्रसङ्गस्यादिति कारणीभूतकोपपरिणत्यात्मकपूर्वस्वभावो निरुद्धः, कार्यात्मकोत्तरभवोत्प. त्तिपरिणतिलक्षणस्वभावान्तरश्चोत्पममित्येकस्यापि जीवस्य स्वभावभेदेन कथाश्चिद्मदोऽभ्युपगन्तव्यः । नन्वेवं तर्हि परमवजीवात् कोपपरिणतिमापद्यमानः पुरुषो मिन्न एवास्त्वित्या. शङ्कानिरासार्थेमाह-'परंमि सयमेव भइयहो' परस्मिन् , भव इति शेषः, स्वयमेव पुरुषो भजनीयः पूर्वोत्तरभवानुयाय्यात्मद्रव्यस्वरूपेणाऽभिन्नतया व्यवस्थापनीयः, य एवाहं बालत्वेनासं स एवाहं युवत्वेन वृद्धत्वेन चोपजात इति प्रत्यभिज्ञानवद् य एवाहं देवमवादिपूर्वभवे आसं स एवाहमेत सञ्जात इत्यास्तिकानामभेदप्रत्यभिज्ञानात् । यद्वा जातिस्मृत्यादिमता कोपपरिणतिवशेनाहं पूर्वमनुष्यभवं परिहायात्र तिर्यक्षुत्पन्न इत्यभेदप्रत्यभिज्ञानात , तदेवमत्राsप्यनेकान्त एव प्रमाणकोटिमाटीकते, एतच्च निश्चयनयमाश्रित्यावसेयम् , यतो निश्चयनयः कोपपरिणति स्वात्मैवोत्पादयति न त्वन्यात्मेति मनुते । यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति, ततोऽसौ कोपकारकत्वेन विभजनीयः, कोपपरिणतियोग्ये जीवे कारकः, अन्यत्राकास्क इति, एतच्च व्यवहारनयापेक्ष्यम् , यतस्स व्यवहारप्रधान इति कोपादिपरिणतिः परनिमित्तिकेति मनुते इति ॥ ७ ॥
"Aho Shrutgyanam"