________________
૨૭૬
सम्मति० काण्ड ३, गा० ७
जातीय कृष्णानां नीलादौ च तत्तदवान्तरजातीय नीलादीनामनेकविधानां स्वकारणोपजातानां सम्भवात्तत्तदपेक्षयोत्कर्षापकर्षप्र योज्य सख्ये या सख्ये यानन्त भागगुण वृद्धि हानिम्यां षट्स्थानकप्रतिपत्तिश्वश्यम्भाविनी, तथा च प्रतिनियतहानिवृद्धियुक्त प्रत्युत्पन्नकृष्णादिपर्यायेण सवं नान्येनेत्यत्रापि भजनागर्ति पतति द्रव्यमिति सिद्धम् ॥ स्यादेतत् पुद्गलद्रव्यं पुद्गलद्रव्यान्तरेण सह सच्चद्रव्यत्वादिना सजातीयबुद्धिग्राह्यत्वेनाऽभिन्नम्, स्वस्वासाधारणधर्मेण विजातीयबुद्धिग्राह्यत्वेन च मिन्नम्, घटपटादिवदिति तत्रानेकान्तास्मकता युक्ता, प्रत्युत्पन्ने चात्मद्रव्यपर्याये कथमनेकान्तरूपता युक्तेति चेत्, उच्यते, आत्मपर्यायस्यापि ज्ञानादेस्स्वग्राह्मार्थग्राहकत्वपरिणतिस्तत्र वर्तते, न तु तद्विपरीतेति ताभ्यां तत्र सवासवो मय सद्भावादऽनेकान्तरूपता पुद्गलवदविरुद्धा, अत एव ज्ञानत्वेनामिश्रमपि ज्ञेयपरिणतिमेदेन प्रतिक्षणं ज्ञानं भिन्नमेवोत्पद्यत इत्य मेदापेक्षया धौव्यम्, मेदा पेक्षयोत्पादव्ययाविति मत्रस्थसिद्धस्थ केवलज्ञानपर्यायेऽपि त्रैलक्षण्यं व्यवतिष्ठते, किकस्याध्यात्मनो द्रव्यात्म- कषायात्म - योगात्म - उपयोगात्म-ज्ञानात्म-दर्शनात्म- चारित्रा- वीर्यात्मभेदतोऽनेकविधत्वप्रतिपादनेन पुद्गलवदने कान्तात्मकता सिद्धान्तसिद्वैव यदुक्तं पञ्चमाङ्गे द्वादशशतके दशमोदेश के " कहविहा णं भंते ! आया पण्णत्ता ! गोयमा ! अट्ठविहा आया पण्णचा, तं जहा -दवियाया- कसायाया- जोगाया-उबओगाया - णाणाया- दंसगाया - चरिचाया - वीरियाया" इत्यादिसूत्रे, एतद्विस्तृतार्थस्तीकात एवावसेयः । तथा चाह वाचकमुख्यः प्रशमरतौ ।
रम
द्रव्यं कषाययोगादुपयोगो ज्ञानदर्शने चैव । चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ॥ १९९ ॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् || २०० || ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानां । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ २०१ ॥ द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ २०२ ॥ एवं संयोगात्पबहुत्वायैनैकशः स परिमृग्यः । जीवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दृष्टम् ॥ २०३ ॥ इति ॥ ६ ॥
प्रकारान्तरेणात्मनोऽनेकान्तरूपतामुपपादयितुमाह
कोवं उपायन्तो, पुरिसो जीवस्स कारओ होइ । ततो विभयन्बो (वि य भइअव्यो) परंभि सयमेव भहयब्वो ॥ ७ ॥
"Aho Shrutgyanam"