________________
सम्मति. काण्ड ३, गा. ६
२७५ अथानुगतजात्यवच्छिन्नयावद्व्यक्तिम्वनुगतजात्यवानिछन्नैकैव शक्तिः, अनुगतैककारणतावच्छेदकधर्मावच्छिन्नकारणतावदिति जातिविशिष्टव्यक्तिशक्तिपक्षे गोस्वरूपेण सकलगोव्यक्तिमानमुपपद्यत एवेति चेत्, अस्त्वेवम्, न च तथापि जातिव्यक्योरेकान्ततो भेद एव, तत्र सम्बन्धस्यायोगाद्, विशिष्टयुद्ध्य नुपपत्तेः । न चैकान्तमिन्नयोरपि तयोस्समवायसम्बन्धोऽस्तीति तबलात्सा भविष्यतीति वाच्यम्, प्रागेव तस्य निरासात्, तत्र स्याद्वादस्य सम्बन्धत्वव्यापकत्वेन कथञ्चिद्भेदाभेदसंसर्गस्यैव विशिष्टबुद्धिनियामक त्वेनाभ्युपगन्तव्यतया गोत्वादेः कथञ्चिद्गवादिव्यक्तिस्वरूपस्यापि जातिरूपत्वादेव निर. वच्छिन्न प्रकारतया तव्यक्तिस्वरूपस्य तव्यक्तित्वस्येव भानोपपत्तेः किमतिरिक्त जातिकल्पनया। किश्च धर्मिकल्पनातो धर्मकल्पना लघीयसीतिन्यायेन कल्प्यमानजाती सामा. न्यत्वकल्पनापेक्षया सिद्धगवादिपिण्डेष्वेव गोसामान्यत्वकल्पनायां लाघवमिति तद्रूपेणानुगतस्य गोपदार्थस्य सङ्केतग्रहे तजन्यशाब्दबोधे च प्रकारतया भानोपपत्तेः सामान्यत्वेन रूपेणापूर्वव्यक्तिष्वपि सङ्केतविषयत्वमुपपद्यत एवेति सामान्यविशेषोभयात्मकमेव वस्तु गुणप्रधानभावेन शब्देनाभिधीयत इति शब्दप्रतिपाद्येस्सदृशैर्व्यञ्जनपर्यायैरेव सर्वमस्ति न त्वर्थपर्यायैरित्युपपमम् ॥ ५॥
नन्वेवमपि भावस्य प्रत्युत्पन्नपर्यायेण नियमेनाऽस्तित्व मेवेत्यभ्युपगमेऽप्येकान्तबादापत्तिरित्याशङ्कयाह-यद्वैकान्तवादापत्तिभिया न च वर्तमानपर्यायेणापि भावस्य नियमेन सत्वमेवाभ्युपगन्तव्यम् , किन्तु सच्चासत्त्वोभयमेवेति प्रतिपादयितुमाह
पच्चुप्पण्णम्मि वि प-नयंमि भयणागई पडह दव्वं ।।
जं एगगुणाईया, अणंतकप्पा गमविसेसा ॥ ६ ॥ 'पञ्चुप्पण्णम्मि वि ' प्रत्युत्पन्नेऽपि-वर्तमानेऽपि 'पजयम्मि' पर्याये, " भयणागई पडइ दवं" भजनागर्ति स्वपररूपतया सदसदात्मिकां अधो-मध्यो दिरूपेण च भेदाऽभेदात्मिका विकल्पपद्धति पतति-आसादयति द्रव्यम्, तत्र हेतुमाह-"जं एगगुणाईमा अणंतकप्पा गमविसेसा" इति, अत्र गुणविसेसा इत्यपि पाठो नयोपदेशवृत्ती, एनमेव पाठमनुसृत्य पूज्यैरमयदेवमूरिभिरप्यर्थः कृत इति मयाऽपि तथैवार्थः क्रियते, यद्-यस्माद्धेतोः एकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाः, कल्पशब्दः प्रकारवाची, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तव , तथाहि कृष्ण द्रव्यं तद् कुष्णद्रव्यान्तरेण तुल्यमधिकं न्यूनं वा भवेत् प्रकारान्तराऽभावात् , आद्यपक्षे विभेदकतयाऽभिमतधर्मेणापि तुल्यत्वे विरुद्धधर्माध्यासामावाद्भेदाभावेनैक्यं तयोस्स्यात् , तथा चैतकृष्णद्रव्य एतत्कृष्णद्रव्यापेक्षया कृष्णतरपर्यायं एतत्कृष्णद्रव्यापेक्षया च कृष्णतमपर्यायमिति कृष्णवर्णपर्यायतरतमादिप्रतीविवाधस्स्यात् , एवं नीलपीतादावपि ज्ञेयम्, उत्तरपक्षयोः कृष्णे ततवान्तर
"Aho Shrutgyanam"