________________
सम्मति० काण्ड ३, गा०५
+
विसदृशपर्यायैरिति यावत् " णियमेण णिश्चमवि नत्थि " नियमेन नित्यमपि नास्ति चेतनद्रव्यमचेतनद्रव्यश्च तैरपि तस्य सवं तदैव स्याद्यदि भूतभविष्यत्पर्यायात्मकपरपर्यायाणां वर्त्तमानकाले सवं स्यात्, तथा सत्यतीतानागतवर्त्तमानावस्थात्रय सङ्कीर्णताप्रसङ्गस्स्यात् “ सरिसेहिं पि बंजणओ अस्थि " सदृशैरपि व्यञ्जनतोऽस्ति येऽपि सदृशपर्यायास्तेऽपि सद्द्रव्यपृथिव्यादिशब्दप्रतिपाद्या व्यञ्जनपर्यायाः कालत्रयानुगताः सामान्यविशेषात्मकास्तेऽत्र ग्राह्याः, तेषां शब्दवाच्यत्वात्, न तु ऋजुमूत्राभिमता अर्थपर्यायाः, तेषामन्योन्यव्यावृत्तवस्तुस्वलक्षणग्राह कर्जु सूत्राभिमतानां स्वलक्षणात्मकत्वेन प्रतिक्षणभित्ररूपाणां शब्दाऽवाच्यत्वात्, अत एव " अभिलाप्यानभिलाप्यं, प्रमाणपर्यङ्कशायि विश्वमिदम् । तस्मादङ्गीकार्य, न त्वेकान्तव्यसनदुःस्थम् ॥ १ ॥ इत्युक्तेर्व स्तु मात्र मभिलाप्यत्वानभिलाप्यत्वधर्मद्वभाजनं, अन्यथा तदुभयधर्मरूपेणाने कान्तात्मकमेव तन्न स्यात् न च शब्दवाच्यत्वाद् यदेवाभिलाप्यत्वधर्मकं तदेव शब्दावाच्यत्वादनभिलाप्यत्वधर्मकमिति कथं सङ्गतम्, घटत्वपटत्वयोरिवैतद्धर्मयोर्विरुद्वत्वेनैकत्र समावेशाऽयोगादिति वाच्यम् हस्वत्वदीर्घत्वयोरिव तयोर्भिन्नापेक्षत्वेन विरोधाभावात् न च भिन्नापेक्षत्वं तयोरसिद्धमिति वाच्यम्, कालान्त रस्थायिस्थूलव्यञ्जनपर्यायैरभिलापयोग्य पर्यायापराऽभिधानैश्चेतनाचेतन वस्तुन्यमिलाप्यत्वस्य प्रतिक्षणविभिन्नसूक्ष्मार्थ पर्यायैरनभिलाप योग्य पर्यायाऽवराभिधानैश्वानभिलाप्यत्वस्य भावादित्युक्तलक्षणैस्सदृशव्यञ्जनपर्यायैस्त्रि कालानुगतैस्सर्वमस्ति तत्तद्रव्यं कालत्रये वर्त्तते, न त्वर्थपर्यायैरित्याह- 'ण पुणत्थपजाए' न पुननैवार्थ पर्यायैस्तदस्ति । अयम्भावःसामान्यविशेषात्मकमेव वस्तु गुणप्रधानभावेन शब्दवाच्यम्, न तु सामान्यमात्रम्, यतोऽग्निगोवाहादिशब्दप्रतिपाद्य सामान्य मात्रस्याग्निस्वगोत्वावत्वादिरूपस्य दहनदोहनाssaगगमनाद्यर्थक्रियाजनकत्वाभावेन सामान्यसाध्यायाश्व ज्ञानाद्यर्थक्रियायास्तदानीमेवोत्पत्तेर्दाहाद्यर्थिनां तत्र व्यक्त्यप्रतिभासे तदानयनफला प्रवृत्तिरेवोच्छिद्येत, न च निशश्रयस्य सामान्यस्यासम्भवेन सामान्यप्रतिपादनद्वारा स्वशक्यजात्याश्रयत्वसम्बन्धरूपलक्षणया • नुमानतो वाऽर्थक्रियाजनकस्य विशेषस्य प्रतिभासाभ्युपगमान्नाऽप्रवृत्तिः, लक्षणाबीजं तु गामानयेत्यादावानयन कर्मत्वादौ प्रकारताचादिमते, संसर्गतावादिमते खानयनादौ कर्मत्वादिसम्बन्धेन जातेरन्वयाऽनुपपत्तिरेवेति वाच्यम्, प्राक्सामान्यस्य प्रतिभासः पश्चाद्व्यक्त्यात्मक विशेषस्येति क्रमप्रतीतेरननुभूयमानत्वात् नन्वेवं तर्हि व्यक्त्यात्मकविशेषा एव शब्दवाच्या सन्त्विति चेत्, तदपि न मनोरमम्, तेषामानन्त्येन सङ्केतासम्भवात् । न च प्रत्येकगवादिव्यक्तिरेकैवेति तत्र शक्तिकल्पनायां यथा सकलगोव्यक्तिभानार्थं तावगोव्यक्तिषु शक्तिकल्पनापक्षे गौरवज्ञानं बाधकं विनिगमकं तथैकव्यक्तिशक्तिपक्षे तन्नेति वाच्यम्, यत एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्तयन्तरमानार्थं तत्र लक्षणायां स्वीकृतायां स्वसमवेताश्रयत्वं संसर्गः कल्पनीय इति गौरवज्ञानं बाधकं तदवस्थमेव ।
२७४
"Aho Shrutgyanam"