________________
सम्मति. काण्ड ३, गा. ५
२७३ णुकादियावषटपटादिकार्यतया च, जीवास्तिकायाख्यञ्च मनुष्यनरकादितत्तद्गत्यादिपर्यायतया तत्तदर्थवाहिज्ञानदर्शनादिपर्यायतया च विशिष्टविशिष्टतरविशिष्टतमाऽध्यवसायादिपर्यायतया च, कालाख्या तत्तत्पुद्गलनवपुराणादिमावहेतुतया हेमन्तातुवि. भागेन च समयविभागेन च परिणतं यत्तत् “ तहेव अस्थित्ति तम्मि समयम्मि" तयैव तस्मिन् समये वर्तमानकालेऽस्तीति । उक्तश्च भगवत्यां त्रयोदशशतके चतुर्थोदेशके "धम्मस्थिकाए गं भंते ! जीवाणं किं परत्तति ? गोयमा ! धम्मत्थिकाए णं जीवाणं आगमणगमणभासोम्मेसमणजोगा वयजोगा कायजोगा जेयावण्णे तहप्पगारा चला भावा सवे ते धम्मत्थिकाए पवतंति गतिलक्षणे णं धम्मत्यिकाए । अहम्मस्थिकाए णं जीवाणं किं पवत्तति ? गोयमा ! अहम्मत्यिकाए णं जीवाणं द्वाणनिसीयणतुयट्टणमणस्स य एगत्तिभावकरणया जेयावण्णे तहप्पगारा थिरा मावा सवे ते अहम्मत्थिकाए पत्तंति" इत्यादि । “विगय-मविस्सेहि उ पञ्जएहिं भयणा " विगतभविष्यद्भिस्तु पर्याय जना-कथञ्चित्तस्तस्यैकत्वम् , ' विभयणा वा' विगतमजना विभजना कथनिकत्वम् 'वा' शब्दस्य कथञ्चिदर्थत्वात् । यतो यदेव द्रव्यमतीतपर्यायतया परिणतं तदेव वर्तमानपर्यायतया परिणमति भविष्यत्पर्यायतया परिणस्यतीति वदमिमाभित्रस्य तद. भिमत्वमिति नियममनुसृत्य वर्तमानपर्यायाऽभिन्नावयिद्रव्याभिन्नातीतानागतपर्यायाणां वर्तमानपर्यायाऽभिन्नत्वमिति द्रव्यार्थिकनय प्राधान्यविवक्षायामन्वयिद्रव्यद्वारा वर्तमान. पर्यायस्यातीतानागतपर्यायैरेकत्वम्, पर्यायार्थिकन यप्राधान्यविवक्षायामतीतानागतपर्या याणां विनष्टाऽनुत्पमत्वेनासपैस्तैर्वर्तमानपर्यायस्यार्थक्रियाकारित्वेन सद्रूपस्य मित्रत्वम् , ततो वर्तमानपर्यायस्यातीतानागतपर्यायाभ्यां स्वस्थासाधारगधर्मरूपेग मेदवदन्वयिद्रव्य. रूपेणाऽमेदोऽपीत्यन्वयिद्रव्यवत्तदभित्रस्य वर्तमानपर्यायस्यापि तद्रूपेण त्रिकालावच्छिम. सत्त्वं नानुपपत्रमिति कथं तत्प्रतिपादकाचनस्याप्रतीत्यवचनतेति सिद्धम् ॥ ४ ॥
नन्वारमघटादिवेतनावेतनपदार्थस्य कैः पर्यायैरस्तित्वं कैश्च नास्तित्वमिति चेत्, उच्यते, सदृशासदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैवानुभूयमानत्वेन सदृशपर्यायैरस्तित्वं विसदृशपर्यायैश्च नास्तित्वमित्युपपादनायाह
परपजवेहिं असरि-सगमेहिं णियमेण णिञ्चमवि नथि।
सरिसेहिं पि वंजणओ, अत्थि ण पुणत्थपनाए ॥ ५ ॥ 'परपजदेहि' परपर्यायैः वर्तमानपर्यायव्यतिरिक्तभूत-भविष्यत्पर्यायाः परपर्यायाः, तैः,कथम्भूतैस्तैरित्याह-'असरिसगमेहि असदृशगमैः, ये गत्यर्थास्ते ज्ञानार्था इत्युक्तेर्विजाती यज्ञानग्राडा, अत्र “विसरिसगमेहि " इत्यपि पाठः, विसदृशगमैः विजातीयज्ञानप्राः
"Aho Shrutgyanam"