________________
२७२
सम्मति• कार , गा. तदेवं कपालद्वयसंयुक्तावस्थैव घटोत्पत्तिरिति मन्तव्यम् । घटनाशस्तु मुद्गरादिना घटस्य विभक्तावयवात्मकतयोत्पन्नकपालकदम्बात्मकः, धर्मिकल्पनातो धर्मकल्पना लघीय. सीति न्यायादुत्तरपर्यायेम्वेव नाशत्वधर्मकल्पनाया लघीयस्त्वात् , अतिरिक्तनाशस्याननुभूयमानत्वाच । तथा च व्यवस्थितमेतत् मृद्दव्यमेव कपालद्वयसंयुक्तावस्थारूपेणोत्पन्नं मृत्पिण्डपर्यायरूपतया विनष्टं मृद्रव्यरूपतया ध्रुवमिति त्रिलक्षणशालित्वेन सद्रूपम् , यदमिहितं स्याद्वादरत्नाकरे- " तेनोत्पादव्ययध्रौव्य-युक्तं सदिति मारती । ददाति विद्वल्लोकाय, नूनं जगति भारती ॥१॥" इति । अत एव कारणं कार्यतः कथञ्चिद्रिनाभित्रमिति कथविद् मेदाभेदात्मकस्वरूपसम्बन्धेन कार्यद्रव्येण सह सम्बद्धमिति तथाभूतवस्तुप्रतिपादकमेवाप्तवचनम् , एकान्ततत्वप्रतिपादकं त्वनातवचनमिति । अथवा एकद्रव्यादन्यद्रव्यं द्रव्यान्तरं तस्मिन् निस्सृतं सम्बद्धं यत्प्रतिपादयति तदपि प्रतीत्य वचनम् , यथा दीर्घतरं मध्यमा. लिद्रव्यमपेक्ष्य इस्वतरमङ्गुष्ठकद्रव्यमिति वचः, इस्त्रत्व-दीर्घत्वादिकस्तु स्वधर्म एव द्रव्यान्तरविशेषाभिव्यङ्गयः पितेव पुत्रादिना । अयम्भाव:-अनन्तधर्मात्मके वस्तुनि महत्त्वं इस्वत्वं गुरुत्वं लघुत्वमित्यादयो द्रव्यान्तरविशेषाभिव्यङ्ग्या ये धर्मास्ते तदंशा एवेति तत्र तेषामविरोधप्रतिपत्तये यानि निमित्तानि तानि तत्तत्रयप्रयोज्यानीति इदं वस्त्वेतदपेक्षया महद् इस्वं वेति बोधे तत्तनिमित्तोपनायकतया तत्तनिमित्तोपगमनपरा नया अपेक्षिता भवन्ति, तत्र महत्वहस्त्रत्वादीनामेकत्र सञ्चाविरोधाय यान्यपेक्षणीयानि तत्तन्नयप्रयोज्याव. ध्यादिरूपतत्तनिमित्तानि तदपेक्षं यद्वचस्तदपि प्रतीत्यवचनमापेक्षिकवचनम् , यथेदं वस्त्वे. तदपेक्षया महत्, एतदपेक्षया च इस्वं एतदपेक्षया गुरु एतदपेक्षया च लधिति वचः ॥३॥
ननु वर्तमानपर्यायश्चेद्वर्तमानकालावच्छेदेनेवातीतानागतकालावच्छेदेनापि संस्तदाऽ. वच्छेदकतासम्बन्धेन वर्तमानपर्यायाश्रयत्वाद्वर्तमानकालबदतीतानागतकालयोरपि वर्तमानकालतापत्या तेषामैक्यं स्यात्, अन्यथोक्तसम्बन्धेन वर्तमानपर्यायाश्रयत्वमेव तयोने स्यादिति वर्तमानपर्यायस्य त्रिकालावच्छिन्नसत्त्वमेवानुपपनं स्यादिति तथाभूतार्थप्रतिपादकं बचनमप्रतीत्यवचनमेवेत्याशङ्कथाह
दव्वं जहा परिणयं, तहेव अस्थित्ति तम्मि समयम्मि ।
विगयभविस्सेहि उ पज्जएहिं भयणा विभयणा वा ॥ ४ ॥ 'दई जहा परिणयं' द्रव्यं धर्मास्तिकायाख्यं तत्तजीवागमनभाषोन्मेषमनोयोगवचनयोगकाययोगादितत्तत्पुद्गलागमनगमनादिचलभावोपष्टम्भकरूपतया परसंयोगजपर्यायैश्च, अधर्मास्तिकायाख्यं च तत्तजीवस्थितिकायोत्सर्गशयनादितत्तत्पुद्गलस्थित्यादि स्थिरभावोपष्टम्भकतया परसंयोगजपर्यायैश्च, आकाशास्तिकायाख्यं च तत्तजीवतत्तत्पुद्रला. वगाहनक्रियोत्पत्तिनिमित्तभावतया परसंयोगजपर्यायैश्व, पुद्गलास्तिकायाख्यं परमाण्वादिकं षड्गुणहानिवृद्धिभावापन्नतत्तद्वर्णतत्तद्रसतत्तद्गन्धतत्तत्स्पर्शादिभावकार्यतया ध्यणुकन्य
"Aho Shrutgyanam"