________________
सम्मति• का , गा० ३ पूर्वोत्तरपर्यायरूपेण परिणमनात्तद्रपान्वयिद्रव्यस्य त्रिकालास्तित्वात्तद्वारेण वर्तमानपर्यायस्य त्रिकालाऽस्तित्वप्रतिपादकं प्रतीत्य वचनमिति सिद्धम् । 'दवंतरणिस्सियं जंच' द्रव्यान्तरनिस्सृतं यच्च तदपि प्रतीत्य वचनम् । यद्यप्युपादानकारणरूपाः परमाणव एव विमक्तत्वाणुत्वपरिणामबहुत्वसङ्खयादिरूपतया ये पूर्वमासन् त एव संयुक्तत्वमहत्व परिणामैकत्वससथादिभावमापना व्यणुकन्यणुकादिव्यपदेशं भजन्ते, अत एव नोक्तस्वरूपेण पूर्वकालावच्छिन्नसत्ताकपरमाणुभ्यस्सर्वथाऽतिरिक्तमवयविद्रव्यमस्ति, न चैवं तर्हि विमक्ता. नामिव संयुक्तानामप्यणूनां चाक्षुषप्रत्यक्षगोचरत्वं न स्यादिति वाच्यम् , विभक्तदशायां चाक्षुषप्रत्यक्षाजननस्वभावत्ववत् तेषां संहतदशायां चाक्षुषप्रत्यक्षजननस्वभावत्वात् , विप्रकृष्टसनिकृष्टेषु रेवादिषु चाक्षुषप्रत्यक्षाजननतजननस्वाभाव्यदर्शनात् , उक्तनानास्वभावत्वे च तद्विषयकचाक्षुषज्ञानावरणकर्मक्षयोपशमभावाभावावेव कारणम् । तथापि नैयायिकवैशेषिकमतेन समवाय्यसमवायिनिमित्तकारणेभ्योऽवयविद्रव्यमतिरिक्तमेवोत्पद्यते इति तदभिप्रायतस्समवायिकारणपरमाणुतः कार्यद्रव्यं ध्यणुकादि द्रव्यान्तरं तेन निस्सृतं सम्बद्धं कारणं परमाण्वादि, केन सम्बन्धेन सम्बद्धमिति चेत्, संयुक्ततया परिणतस्य परमाणुद्वयादेः संयोगात्मकपर्यायस्यैकत्वेन तदभिन्नत्वादभेदः परमाणुत्वद्वयणुकत्वादिना च मेद इति कथश्चिभेदविशिष्टाभेद एवं कथश्विझेदाभेद इति तदात्मकस्वरूपसम्बन्धेन, न तु सम्बन्धान्तरेण, समवायस्य निरस्तत्वात् एकान्तव्यतिरिक्तसंयोगादिसम्बन्धस्य चापटमानत्वात् , इत्थं यत्प्रतिपादयति तदपि प्रतीत्य वचनम् , तथाहि-यदाऽणवो विभागबहुत्वसङ्ख्याऽणुपरिमाणादिपर्यायान् परित्यज्य संयोगैकत्वसङ्ख्यामहत्वादिपर्यायान् गृहन्ति तदा स्थूलकायेस्वरूपमासादयन्तीत्यणूनामेव संयोगैकत्वसङ्ख्यामहत्त्वादिपर्यायरुत्पत्तिः, विभागबहुत्वसङ्ख्याऽणुपरिमाणादिपर्यायव्यणुकादिपूर्वसूक्ष्मस्वरूपतया वा विनाशा, स्थूलकार्यनिष्पत्तावपि परमाणवो न मूलभूतद्रव्यस्वरूपं परमाण्वात्मकं परित्यजन्तीति तद्रूपेण ते नित्याः, परमाणुरूपतयाऽपि विनाशोत्पत्यभ्युपगमे तु पूर्वोत्तरावस्थयोनिराधारविगमप्रादुर्भावप्रसक्तिः, न च तदवस्थयोरेवाधारत्वम् तयोस्तदानीमसत्वात् । न च समवेतकार्य समवायिकारणे उत्पद्यत इति तदेव तदाधार इति वाच्यम्, तद्घटकसमवा. यस्य पूर्वमेव निरस्तत्वेन तदसिद्धेः, नन्वेवं तर्हि घटकार्योत्पत्तिः कथमिति चेत्, मृदुपादानात् , तथाहि-पूर्वमृत्पिण्डपर्यायं परिहायोत्तरघटपर्यायमुपादत्ते मृद्रव्यम् । उक्तश्च श्रीमहाचीरस्तवे " सामान्यमेव तव देव ! तर्खताख्य, द्रव्यं वदन्त्यनुगतं क्रमिकक्षणौघे" इति । एतेन कार्यैकार्थप्रत्यासत्या कपालद्वयसंयोगस्यासमवायिकारणत्वमित्यपि निरस्तम् , संयो. गस्य पर्यायरूपत्वेनातिरिक्तसंयोगगुणस्यैवाभावात् । तदुक्तमुत्तराध्ययनसूत्रे
" एगत्तं च पुहुत्तं संखा संहाणमेव च । संजोगो य विभागो य पञवाणं तु लक्खणं ॥" इति ।
"Aho Shrutgyanam"