________________
सम्मति. काण्ड , गा० ३ बच्छिमं प्रति यद्धर्मावच्छिमस्य कारणत्वं तदर्मावच्छिमसवे तदितरसकलसहकारिसमा नभाने च पूर्वमसतोऽपि कार्यतावच्छेदकतद्धर्मावच्छिन्नस्योत्पत्तिरित्यभ्युपगमोऽस्माकम् , तथा च शशशृङ्गादिकं यदि कस्यचित्कारणस्य सन्निधानात्पूर्वमसदपि पश्चादुल्पद्यमानमुपलभ्येत तदाऽनायत्या शशशृङ्गत्वावच्छिन्नम्प्रत्यपि यत्किश्चिद्धविच्छिमस्स कारणत्वमभ्युपगतं भवेत् , तेन च तस्योत्पत्याचापादनं युक्तिसङ्गतं भवेत् , न चैवम् , तथा च पूर्वमसत्त्वाऽविशेषेऽपि तदनु कारणसमाजादुत्पद्यमानस्योपलम्भाच्छशशृङ्गादेश्च कदाचिदप्य. नुपलम्मादनुपलभ्यमानकार्यस्यानुपलभ्यमानतत्कारणस्य च कल्पनायाः प्रयोजनं विना गौरवमानसम्पादकत्वादापादकामावादेव न तदापत्तिरित्ति चेत्, मैवम् , यतो यदि कारणे असदेव कार्यमुत्पद्यते तहि किमिति तन्तुभ्य एव पटो न कपालादिभ्यः, विनिगमकाभावात् , एकस्मादपि कपालादेपेटपटादिनिखिलकार्योत्पत्तिस्स्यात् , सत्त्वपक्षे च यस्य कार्यस्य यत्र कारणे सत्त्वं तस्य तत्कारणादेवोत्पत्तिः, नान्यस्मात् , उपादानकारणानां कथञ्चित्सजननस्वभावस्यैकस्यैवाभ्युपगमेन लाघवम् , असत्वपक्षे तु प्रतिनियतकार्यजनकत्वस्वभावकल्पने कार्यकारणभेदेनानन्तस्वभावप्रसङ्गनाऽतिगौरवमित्यत्र दीयतां दृष्टिः, नन्वसदुत्पत्तिपक्षे शशशृङ्गाद्युत्पत्तिगौरवापादनं तदा शोभेत यदि निष्प्रामाणिकः कल्पनामात्रविषयोऽभ्युपगतो भवेत् , यावता प्रत्यक्षप्रमाणमेव प्रतिनियतकार्यकारणभावं निश्चिन्वत् कार्यस्य कारणभेदं पूर्वकालाऽसत्त्वं च निश्चिनोतीति प्रमाणसिद्धोऽसद्वादो वैकल्पिक सद. सहादं मिथ्यात्वेनाऽवबोधयति, अत एवोक्तमन्यत्र, “संविदेव हि भगवती वस्तूपगमे नश्श रणम्" इति चेत्, न, यैव संविद्भगवती प्रमाणत्वेन भवतोपन्यस्ता सा स्वयमेवात्मनः कथत्रिभेदाभेदवादं कथञ्चित्सदसद्वादश्चाऽन्तरेणानुपपना कथं तमेव वाघेत, तथाहि संविद् भवद्भिरप्यात्मगुणत्वेनाभ्युपगम्यते, सा चात्मत्वेन ज्ञानत्वेनात्मज्ञानयोर्भेदः, अन्योन्यानुस्यूतत्वेनाऽयुतसिद्धत्वेन चाभेद इत्येवं कथश्चिद्भेदाभेदमन्तरेणानुपपन्नेति । ननूक्तमेव गुणगुणिनोस्समवायलक्षणोऽतिरिक्तस्सम्बन्धस्तेन भिन्नमपि ज्ञानमात्मनि वर्तत इति तयोर्गुणगुणिमात्र इति तत्किं विस्मृतम् ? इति चेत् को नाम नोक्तमिति वदति, न वा विस्मृतं तत् , किन्तु योऽयं समवायात्मा सम्बन्धो भवद्भिरभ्युपगतस्स प्रमाणबाह्य इति श्रुतमप्यश्रुतकल्प कृत्वोपेक्षितः, प्रमाणागोचरवलक्षणप्रमाणबाह्यत्वं तु तस्य पूर्वमेवोक्तमिति न पुनरुच्यते, नन्वेवं सति सदुत्पादपक्ष एवास्तु प्रमाणा) न तु कश्चित्सदसत्पक्षः, अनुभवपथातीतत्वात इति चेत् , मैवम् , सत्पक्षे हि कार्यस्य कारणात्मकत्वेनेदमस्य कारणमिदमस्य कार्यमित्यसङ्कीर्णव्यवहारविलयनप्रसङ्गात् , यतो न हि यद्यतोऽव्यतिरिक्तं तत्तस्य कार्य कारणं वेति व्यपदेष्टुं शक्यम् , कार्यकारणयोर्मिनलक्षणत्वात् । तथा चोपादान कारणे कथश्चित्सजननस्वमावस्यैव प्रमाणगोचरत्वेन तत्र प्रागपि द्रव्यरूपेण सत्कार्य कार्यरूपेणानुत्पनत्वात्तपेण चाऽसदिति कार्यकारणभावस्य कथश्चित्सदसत्पक्ष एव घटमानत्वेनोपादानकारणस्य
"Aho Shrutgyanam"