________________
१६९
सम्मति काण्ड ३, गा० ३
"
?
+
भावरूपत्वे च व्यञ्जकादयः किं पूर्व सन्तोऽसन्तो वाऽभ्युपगम्यन्ते, आधे तत्सस्वोपलम्भप्रसङ्गेन तदभावाsयोगः । द्वितीये च तदनुत्पत्तिप्रसङ्गः, असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाश्च सत्कार्यम् ॥ १ ॥ इत्युक्तेः । किश्चैवमुत्पत्तिपदार्थ एव विलीयेत, कार्यस्य प्रागपि सच्चेनाद्यक्षण सम्बन्धलक्षणायास्तस्या इदानीमयोगात् । अथ पूर्व कार्य शक्तिरूपेण सत् नाभिव्यक्त्याऽपीति नोक्तदोष इति चेत्, वर्धनायासेनैवासत्पक्षसिद्धिः पूर्वमभिव्यक्तिरूपेणाऽसतोऽपि कार्यस्योत्पादाभ्युपगमात् । एवं भविष्यत्पर्यायात्मकत्वे च वर्त्तमानपर्यायस्य तद्विनाशहेतुव्यापारवैफल्यम्, तेन तद्विनाशकार्याकरणात्, उत्तरकालावच्छेदेनापि घटादिकार्यसद्भावेन तदुपलब्धिजलाहरणादितत्कार्यप्रसङ्गच, ततो यद्यत्कालावच्छेदेन स्वीयकार्यकृत्तत्तत्कालावच्छेदेनैव सत्, वर्त्तमानपर्यायश्च स्वकालावच्छेदेनैव कार्यकृदित्यर्थक्रियाकारित्वात् तदानीमेव सत्, न पूर्वोत्तरकालावच्छेदेन तदानीमर्थक्रियाकारित्वाभावादिति चेत्, मैत्रम्, कथञ्चित्सदसत्कार्यवादे दोषाभावात्, द्रव्यरूपेण प्राक् सतः पर्यायस्य द्रव्यरूपेण प्रागप्युपलम्भात्, पर्यायरूपेणासतस्तस्याऽऽद्यक्षण सम्बन्धलक्षणोत्पत्तेः सुघटत्वाच्च न वेदेवम् उपादानकारणत्वमेव दुर्घटं स्यात् पूर्वं समवायस्य निरस्तत्वेन स्वसमवेत कार्यकारित्वलक्षणस्योपादानत्वस्यासिद्धेः कार्य प्रागभावाधिकरणत्वमुपादानत्वमित्यपि न, यतोऽसतः कार्यस्य पूर्व स्वरूपाभावे स्वरूपात्मकप्रतियोगित्वस्याप्यभावेन कार्यनिष्ठप्रतियोगितानिरूपकाभावात्मकः कार्य प्रागभाव एव न सिद्धयेत् एवं तस्य स्वरूपात्मकविशेषणत्वसम्बन्धस्याभावे तेन सम्बन्धेन तदधिकरणत्वस्याप्ययोगादिति । अत्राह बौद्ध: - यद्यत्कुर्वद्रूपात्मकं तत्तस्योपादानकारणमिति चेत्, तदपि न सङ्गतम्, एकान्तक्षणिकतश्चस्यं पूर्वं निरस्तत्वेन तस्याऽप्यसिद्धेः, एवं वर्त्तमानपर्यायस्य भविष्यत्पर्यायात्मकत्वेन तद्वत्तस्यापि स्वस्वरूपेणोपलब्धिप्रसङ्ग इत्यपि न युक्तम्, ऊर्ध्वतासामान्याख्यद्रव्यस्य पूर्वकालावच्छिन्नतचंदनस्थावर्त्तित्वेनेवोत्तरकालावच्छिन्नतत्तदवस्थावर्त्तित्वेन कथञ्चित्तदभिन्नवर्त्तमानपर्याय सत्त्वमपि तदानीं द्रव्यरूपेणैवाऽभ्युपगमात्, न तु स्वस्वरूपेणेति न तदानीं भविष्यत्पर्याय स्वरूपेणोपलम्भप्रसङ्गः, पूर्वोत्तरतत्तदवस्थायां प्रतिभासमानेन द्रव्यरूपेण तदुपलम्भस्त्विष्ट एव, अत एव पर्यायरूपेण तद्विनाशहेतुव्यापार वैफल्यमपि न तेन रूपेण तद्विनाशभावदर्शनात्, तदेवं कारणे नैकान्तेन सत्कार्यमुत्पद्यते, कारण वैफल्यप्रसङ्गात्, न वैकान्तेनासत्, घटादेखि शशशृङ्गादेरप्युत्पत्तिप्रसङ्गात् असच्चाऽविशेषात् । किन्तु कथञ्चित्सदेवेति कारणस्य कथञ्चित्सजननस्वभाव एवं युक्तः । नन्वेकान्ताऽसत्पक्षेऽपि शशशृङ्गाद्युत्पच्यापादनं न सम्यग्पदं धत्ते यतस्तदनुत्पत्तिः कारणाभावादेव, न त्वचादिति चेत्, सोऽपि कृतः १ । असत्वादिति चेत्, तदपि कुतः १ कारणाभावादिति चेत्, तर्ह्यन्योन्याश्रयः । ननु यदसतदुत्पद्यत एवेति नियमो नाम्युपगम्यते, येनोक्तदोषस्स्यात्, किन्तु यद्धर्मा
1
+
"Aho Shrutgyanam"