________________
२६८
सम्मति• काण्ड ३, गा० ३ इत्यपेक्षाभेदप्रयोज्य एवैतत्काण्डारम्भ इति नोक्तदोषः । यद्वा नैयायिकवैशेषिकावेकस्मिन्नेव भ्रान्तझाने धर्यशप्रकारांशावच्छेदेन प्रामाण्याऽप्रामाण्ये शाखायां वृक्षः कपिसंयोगी न तु मूले इति प्रतीतेरेकस्मिभेव वृशे शाखामूलावच्छेदेन कपिसंयोगतदभावो नितम्बे पर्वते वहिन तु शिखरे इति प्रतीतेरेकस्मिन्नेव पर्वते नितम्बशिखरावच्छेदेन वह्नितदभावौ चाम्यु. पगच्छतः, निरीश्वरसेश्वर मेदेन द्विविधावपि साङ्खथौ प्रकाशोपष्टम्भावरणादिविरुद्धकार्यकारित्वेन परस्परविरुद्धसस्वरजस्तमोगुणत्रयात्मकमेकं प्रधानं स्वीकुरुतः, स्वप्रकाशवादिनो वेदान्तिनोऽनुमिती पक्षांशे प्रत्यक्षत्वं साध्यांशे च परोक्षत्वं मन्वते । बौद्धस्तु नीलपीते इत्याद्याकारकज्ञानस्य स्वप्रकाशरूपत्वेन यद् ग्राहकाकारं चित्रज्ञानस्वरूपं तद्रूपेण तदेकं, नीलाकारस्य पीताकारस्य च भिमत्वेन तद्रूपेण चानेकम् , एवमेकस्यैव रूपस्य स्वाव्यवाहितो. तररूपं प्रत्युपादानकारणत्वं स्वाव्यवहितोत्तररसादिकं प्रति च निमित्तकारणत्वमुररीकरोति, इत्येवमपेक्षामेदेन तदतत्स्वभावमनेकान्तमभ्युपगच्छन्तोऽपि तत्तद्वादिनोऽनेकान्ततत्वे प्रत्यक्षादिप्रमाणसिद्धे यद्विरोधादिदोषानुद्भावयन्ति तत्परिहारोऽनेकधा क्रियमाणो न दोषपोषायेति न कश्चिदोषः 'सामग्णम्मि विसेसो' इत्यादि सूत्रसन्दर्मविरचने ॥ २ ॥
एकस्मिन्नेव देवदत्ते पित्रपेक्षया पुत्रत्वम् , पुत्रापेक्षया पितृत्वम् , एकस्मिन्नेव बदरादौ अण्वपेक्षया महत्त्वम्, महदपेक्षया चाणुत्वम् , एकस्मिन्नेवाछुल्यादौ वक्रापेक्षया ऋजुत्वम् , ऋज्यपेक्षया च वक्रत्वम् , द्रव्यापेक्षया सामान्यात्मकत्वम् , पर्यायापेक्षया च विशेषरूपस्वमित्येवमापेक्षिकवचनमाप्तस्य, इदमित्थमेवेत्येवं नितिकस्वरूपप्रतिपादकतयकान्तवचनमनाप्तस्येत्येतत्स्वरूपप्रतिपादनार्थमाह-यद्वा सामान्यविशेषानेकान्तात्मकवस्तुप्रतिपादकं वचः नमाप्तस्य, इतरदितरस्येत्येतदेव दर्शयन्नाह
पच्चुप्पन्नं भावं, विगयभविस्सेहिं जं समण्णेइ ।
एयं पडुच्चवयणं, दव्वंतरणिस्सियं जं च ॥ ३ ॥ 'पच्चुष्पन्नं भावं ' प्रत्युत्पन्नं भाव-निखिलजीवाजीवादिद्रव्यस्य प्रत्यक्षादिप्रमाणगोचरीभूतं वर्तमानपर्याय 'विगयभविस्सेहिं ' विगतभविष्यद्भया अतीतानागतपर्यायाभ्यां 'जं समण्णेइ' यत्समन्वेति-कालत्रयानुगतोयतासामान्याख्यद्रव्यस्य भूतवर्तमानभविप्यत्पर्यायपरिणामितया तद्रूपेण समानरूपतया नयति प्रतिपादयति वचः 'एयं पडुच्चवयणं' एतत्प्रतीत्यवचनम् , आपेक्षिकवचनम् , सर्वज्ञवचनमित्यर्थः, अन्यच्चानातवचनम् , ननु वर्तमानपर्यायस्यातीतपर्यायात्मकत्वे तद्वत्तस्यापि प्राक् सवप्रसङ्ग इति सत्कार्यवादसाम्राज्यापत्तिः, तथा चेदानींतनतत्कारकव्यापारवैफल्यप्रसङ्गा, कार्यात् प्रागपि तत्सत्वस्य तत्कार्यस्य चोपलम्भप्रसङ्गश्च, अथ पूर्वमनाविर्भावाद् न तत्प्रसङ्ग इति चेत्, न, अनाविर्भावस्य निर्वक्तुमशक्यत्वात् , उपलम्भाभावरूपत्वे तस्यात्माश्रयात् , व्यञ्जकाय
"Aho Shrutgyanam"