________________
सम्मति काण्ड ३, पा० २
२६७
66
मात्मकपर्यायाभावे परिणामिद्रव्याभावस्याप्यवश्यम्भावात् द्रव्यत्वजातियोगात् समवायिकारणत्वाच्च द्रव्यमित्यस्य तु प्रागेव निरस्तत्वान पुनस्तभिरस्यते, अत एवात्मानमधिकृत्य " न द्रव्यमेव तदसौ समवायिभावात् पर्यायताऽपि किमु नात्मनि कार्यमावात् । उत्पत्तिनाशनियतस्थिरतानुवर्त्ति, द्रव्यं वदन्ति भवदुक्तिविदो न जात्या || ६३ ॥ " इति खण्डस्वाद्याऽपरनाम महावीरस्तवोक्तं सङ्गच्छते, एयंत विसेसियं च वयमाणो पजवाहि दवियं णियत्तेइ " एकान्तविशेषश्च एकान्ततस्सामान्यरहितं विशेषं च वदन् पर्यायेभ्यो विशेषेभ्यो द्रव्यं निवर्त्तयति, न च तनिवृत्तिर्युक्ता यैव मृत्पिण्डव्यक्तिः सैव स्थासस्वरूपा सैव कोशस्वरूपा सैव कुशूलादिस्वरूपा, थ एव गोरसो दुग्धरूपः स एष दधिघृतादिस्वरूप इत्याद्याकारायास्तचत्पूर्वोत्तरपरिणामलक्षण विशेषानुगतो तासामान्याख्यद्रव्यप्रतीतेर्भावात् द्रव्यस्याबाधितानुगतप्रतीतिसिद्धत्वेऽपि निवृभ्यस्युपगमे एकस्यैवात्मद्रव्यस्य बालव वृद्धत्वादिदेवनरनारकादिपर्यायाः न त्वन्यद्रव्यस्येति व्यावृत्तबुद्धिग्राह्माणामपि विशेषाणां निवृत्तिप्रसङ्गाद्, सामान्यविशेषपोर्मिंथोऽनुस्यूतत्वेनानुभूयमानयोर्मध्यादेकस्याभावे तदपरस्याध्यभावो न्यायप्राप्त एव न च द्रव्यपर्यायावेकान्तभिन्नौ भिन्न बुद्धिग्राह्यत्वात् घटपटवदित्यनुमानेन द्रव्यपर्याययोरेकान्तभेदसिद्धौ तयोर्मिथोऽनुस्यूतत्वमे वाऽसिद्धमिति नोक्तं सङ्गतमिति वाच्यम्, य एवाहं पूर्व देवत्वेनाभूवं स एवाहं मनुष्यत्वेनोत्पन्नः, य एवाहं पूर्व बालस्स एवाहं युवास्मि य एव देवदतो बालत्वेन दृष्टस्स एव युवत्वेन मया दृश्यत इत्यादिप्रत्यभिज्ञाबलेन द्रव्यपर्यायरूपेण कथञ्चिद्भेदाभेदोभयस्वरूपस्यैव सिद्धेः, अत एव तयोरेकान्वाऽभेदोऽपि प्रतिक्षिप्तः, पूर्वोक्तयुक्तेः, यन्निवृत्तौ यस्य न निवृत्तिस्तत्ततो भिन्नं यथा घटनिवृत्तावपि परस्याऽनिवृत्तिरिति स ततो भिन्नो दृश्यते, पर्यायनिवृत्तावपि द्रव्यस्य न निवृत्तिः, ध्रुवस्वभावत्वादिति तस्य द्रव्यस्य पर्यायतो भिन्नत्वाच्च यतो द्रव्यपर्याययोरभेदें द्रव्यस्वरूपवत्पर्यायस्याप्यनिवृत्तिस्स्यात्, यद्वा द्रव्यस्यापि निवृत्तिस्स्यात् पर्यायस्वरूपवत्, न च तद् युक्तम्, यतो द्रव्यपर्याययोः कथञ्चिद्भेदाभेदोभयस्वरूपतयैवानुभूयमानत्वेन द्रव्यस्वरूपाsनिवृत्तावपि पर्यायनिवृत्तिः पर्यायनिवृत्तावपि द्रव्यस्यानिवृत्तिरपि नानुपपन्ना, कथञ्चिद्भेदपश्चसमाश्रयणात्, तदेवं वस्तुमात्रं सामान्यविशेषोभयात्मकम् अबाध्यमानानुगतव्यावृतबुद्धिगोचरत्वाऽन्यथानुपपत्तेरभ्युपगन्तव्यमिति सिद्धम् । यदभिहितं स्याद्वादरत्नाकरे - तत्सामान्यविशेषाख्या -ऽनेकान्ताक्रान्तमूर्त्तिकम् । वस्तु प्रमेयमायातं, प्रमाणस्योपपत्तितः ॥ १ ॥ इति । नन्वेतत्तृतीयकाण्डं नारब्धव्यम् अनेकगाथासन्दोहैरनेकधा पूर्वप्रतिपादितविषयकत्वेन पुनरुक्तत्व दोषाघ्रा तत्वात्, पिष्टपेषणवदस्य निष्फलत्वाच्चेति चेत्, एवमेतत्, किन्तु प्रमेयप्राधान्येन तद्ब्राहकस्य प्रमाणस्यापि निरूपणमित्येतत्प्रदर्शनद्वारेण तत्प्रतिपादकवाक्यावतारः प्राविहितः, इह त्वविद्यमानप्रमेयस्य प्रमाणस्य प्रमाणत्वासम्भवात् प्रमाणनिरूपणद्वारेण प्रमेयनिरूपणमिति प्रदर्शनद्वारेण ' सामण्णम्मि विसेसो' इत्यादिवाक्यावतार
"Aho Shrutgyanam"