SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ २६६ सम्मति० काम ३, गा• १-२ वचनस्य-नामनामवतोरमेदात् सत्तासामान्यस्य अस्तित्वसामान्यस्य वा, यद्वा लक्षणयोक्तक्चनप्रतिपाद्यस्य सत्तासामान्यस्य अस्तित्वसामान्यस्य वा तथा पृथिवीजलादाविदं द्रव्यमिदमपि द्रव्यमित्यनुगतवचनस्य नामनामवतोरभेदात् द्रव्यसामान्यस्य यद्वा लक्षणयोक्तवचनप्रतिपाद्यस्य द्रव्यसामान्यस्य पृथिवीजलादिपूर्वोचरपर्यायानुयायितया त्रिकालानुगतत्वे. नोवंतासामान्यात्मकस्य विनिवेशः विनियोजनं प्रदर्शनमिति यावत् 'दबपरिणाममणं दाएइ' द्रव्यपरिणाममन्यं दर्शयति, सत्ताख्यसामान्यस्यास्तित्वसामान्यस्य वा द्रव्यपरिणामं द्रव्याख्यविशेषं तथा जैनसिद्धान्ते पुद्गलानामेकजातीयत्वात् पृथिवीजलादीनां पुद्गलद्रव्यपरिणामत्वेन पृथिवीजलादिपूर्वोत्तरपर्यायानुगतोर्वतासामान्यात्मकपुद्गलद्रव्यस्य पृथिव्याद्याख्यपरिणामं पृथिव्याद्याख्यविशेषमन्यं विशेषस्य सामान्यात्मकत्वात् सामान्यस्वरूपपरित्यागे विशेषस्स्वस्वरूपमपि परित्यजेदित्यतरसामान्यस्वरूपाऽपरित्यागेनैव वृत्तं दर्शयति, सामान्यानुविद्धविशेष इव सामान्यमपि विशेषानुविद्धमेव, यतो विशेषाऽभावे सामान्यस्याप्यभावप्रसक्तिस्स्यात्-यद् यदात्मकं तत्सदभावे न भवति, यथा मृत्पिण्डस्थासकोशकुशूलाद्यात्मकं मृद्रव्यमिति तदभावे तदभावः, विशेषात्मकश्च सामान्यमिति तदभावे तस्याप्यभावस्स्यात् । एतावत्प्रबन्धेन सामान्यविशेषयोमिथोऽनुस्यूतत्वेन सामान्यस्य विशेषात्मकत्वं प्रतिपाद्याधुना विशेषस्यापि सामान्यात्मकत्वं प्रतिपादयितुमाह-' तयं च णियमेह' तकंच नियमयति । तमित्यर्थकमकचप्रत्ययसिद्धं तकं विशेष नियमयति, द्वितीयपक्षे सामान्य विशेषात्मकमितिवद्विशेषोऽपि सामान्यात्मक एवेति गमयति, अन्यथा मृदभावे मृत्पिण्डस्थासकोशकुशूलायभाववत्सामान्याभावे विशेषस्याप्यभावप्रसङ्गस्यादिति भावः ॥१॥ न च सामान्यविशेषौ मिथो निरपेक्षत्वाद्विभिभबुद्धिग्राह्यत्वाच्चैकान्ततो मिन्नावेवेति न सामान्य विशेषात्मकं न वा विशेषास्सामान्यात्मका इति न तदुभयात्मकं वस्त्वित्यम्युपगन्तव्यम् , प्रत्यक्षादिप्रमाणविरोधप्रसङ्गात् , तथापि तथाभ्युपगमे यत्स्यात्तदाह एगंतणिव्विसेसं, एयंतविसेसियं च वयमाणो। दव्वस्स पनवे प-जवाहि दवियं णियत्तेइ ॥२॥ " एगंतणिबिसेसं वयमाणो दबस्स पञ्जवे णियत्तेइ " ' एकान्तनिर्विशेष वदन् द्रव्यस्य पर्यायान् निवर्तयति' एकान्तेन निर्गता विशेषा यस्मात्सामान्यात्तदेकान्तनिर्विशेषम् , विशेषानात्मकं सामान्यं वदन् द्रव्यस्य मृद्रव्यस्य पर्यायान् मृत्पिण्डस्थासकोशादीन् गोरसादेश्च पयोदधिघृतादीन एवं द्रव्यान्तरस्य स्वीयस्वीयपर्यायान् निवर्तयति, न च तन्निवृत्तियुक्तियुक्ता, यतस्तनिवृत्यभ्युपगमे मृत्पिण्डस्थासकोशकुशूलादिपूर्वोत्तरपर्यायात्मकमृद्रव्यस्य दुग्धदधिघृतादिपूर्वोत्तरपर्यायात्मकगोरसादिद्रव्यस्याप्यध्यक्षादिप्रमाणप्रतीयमानस्य निवृत्तिप्रसङ्गस्स्यात् , परिणामपरिणामिनोः परिणामपरिणामिभावेन कथञ्चिदमेदात्तत्तत्परिणा "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy