________________
॥ श्रीसम्मतितर्कप्रकरणम् ॥
॥तृतीयकाण्डम्॥
मंगलाचरणम् सपर्या पर्याप्ता त्रिकरणसमापत्तिविहिता, फलं फुल्लं कर्तुं निखिलदुरितं हर्तुमनिशम् ॥ प्रभोर्यस्य प्राप्ता अगणितजनास्सिद्धिममला:, यत श्रीवीरेशोऽतुलमधुमतीपूर्मुकुटकः ॥ १ ॥ अपूर्वो यो मेघो भविकहृदये वर्षति भृशम्, वचोवारिस्वच्छं जनयति सुधर्माङ्कुरमरम् ।। भया बाल्येऽनल्पप्रणयभरता पूजित इति,
स मे हत्क्ष्मां तत्वाऽनुभवरसरम्यां रचयतु ॥ २॥ युग्मम् ॥ एवं परस्परानुस्यवसामान्य-विशेषग्रहणप्रवृत्तदर्शन-ज्ञानस्वरूपद्वयात्मक उपयोग: प्रमाणार्पणया प्रमाणमिति प्रतिपायेदानी तद्विषयभूतो सामान्यविशेषावप्यन्योन्याविनिर्भागस्वरूपाविति प्रतिपादयितुं तृतीयकाण्डं प्रारिप्सुस्मुरिराह-यद्वा दर्शनज्ञानयोः परस्परमविनिर्मागरूपता प्रतिपाद्याधुना सामान्यं विशेषानुगतं विशेषाश्च सामान्यानुगता इति तयोरपि मिथोऽनुस्यूतस्वरूपता प्रतिपादयितुं तृतीयकाण्डं प्रारिप्सुस्मुरिराह
सामण्णम्मि विसेसो, विसेसपक्खे य वयणविणिवेसो।
दव्यपरिणाममण्णं, दाएइ तयं च णियमेइ ॥१॥ . 'सामण्णम्मि' इदं सत् इदमपि सदित्याधनुगतप्रतीतिविषये सत्ताख्यसामान्ये आत्माऽनात्मपदार्थमात्रे अस्ति अस्तीत्यनुगतप्रतीतिविषयेऽस्तित्वसामान्ये वा — विसेसो' विशेष इदं द्रव्यं नाद्रव्यं इयं पृथिवी न जलादिकमित्येवं व्यावृत्तबुद्धिगोचरो द्रव्यपृथिव्याद्यात्मको विशेषः तथा " विसेसपक्खे य वयणविणिवेसो" ' विशेषपक्षे च वचनविनिवेशः' द्रव्यपृथिवीघटाद्यात्मके विशेषपदार्थं च 'द्रव्यं सत् , पृथिवी सती, घटः पटश्च समित्याउनुगतवचनस्य यद्वा 'द्रव्यमस्ति पृथिव्यस्ति घटोऽस्ति पटोऽस्तीत्याद्यनुगत.
"Aho Shrutgyanam"