________________
२६४
सम्मति• काम २, पा. ४३ सम्यग्दर्शन भावनोदयलसत्स्वानन्दनम्यक्रम, हृत्पने स्वगुरोः प्रविश्य मधुपं विज्ञानरेणोलिहे । शश्वद्वागमृतप्रचारकरणाल्लावण्यमूर्ति सुधीः, सूरि नेमिगुरुं नतश्च विबुधैर्न स्तौति ? कस्तूरसा ॥ ८॥ येऽसूयान्वितमानसाः परगुणान् सन्दूषयन्ति क्षणात् । ये वा द्वेषविशेषदूषितहृदो निन्दन्ति चास्मानिह ॥ तानुद्दिश्य न यत्न एष ममतु स्यात्तुल्यशीलो जनो।
ह्यर्थी कश्चिदनेन भूरतिपृथुः कालस्य वा नावधिः ॥९॥ इति दूपमाकालनिशादिवाकरकल्पत्वेनावाप्तयथार्थाभिधान-प्रवचनोपनिषद्वेदि-महातर्कवादिशिरोमणि-श्रीविक्रमादित्यादिमहाभूपतिप्रतिबोधक-श्रीसिद्धसेनदिवाकरभगव. स्प्रणीतस्याखिलनयसंमर्दगहनस्य सम्यग्दर्शनविशुद्धिकृद्रव्यानुयोगतवरत्नरत्ना. करस्य सकलतत्तत्परनयपरिशुद्धिविधायकमहातकसङ्घटितस्य निखिलवादनाय. कानेकान्तवादगोचरपदार्थत्वव्यापकाविरुद्धकथञ्चित्सदसदादितचप्रमापकस्य "श्रीसम्मतितर्कप्रकरणस्य" सार्वतत्वामृतरससङ्गतिसमवाप्तसुवर्णभावाऽलङ्कृता-ऽखर्वगर्ववादिवृन्दाप्रधृष्य--प्राज्ञपार्षदगणचमत्कारद्वाणीविलाससमुद्भूतानुपमभव्यजातहृदखण्डप्रमोदभरप्रसृतशशभृद्धवलकीर्तिभरधवलितभूवलय-न्यायव्याकरणसिद्धान्तादिपारा-- वारसमवगाहनसमुपलब्धानल्पतत्वरत्नसंदृब्धबृहत्सम्मतिवृत्तिवृत्ति-न्यायखण्डखाद्यवृत्त्याद्यनल्पग्रन्थसन्दर्भ-भव्यात्मसम्यग्दर्शनातिविशुद्धिकृदनल्पमहातीर्थसमुअतिबद्धकक्ष--श्रीतपागच्छनभोनभोमणिसरि-- सम्राइ- भट्टारकाचार्य-श्रीविजयनेमिसूरी-- श्वरपट्टनमोभास्कर-समवाप्न्यायवाचस्पति-शास्त्रविशारदविरुदभट्टारकाचार्य-श्रीविजयदर्शनसूरीश्वरविरचितायां सम्मतितर्कमहार्णवावतारिकाख्यः टीकायां 'द्वितीयकाण्ड' समाप्ति मगात् ॥
"Aho Shrutgyanam"