________________
सम्मति० काण्ड २, गा० ४३
२६३
तद्वत् सूरिवचनेषु त्रयेषु विरोधमुद्भावयन्तः स्वीयमज्ञानमेव प्रदर्शयन्तोऽमी अहह कुत्रापि निरातङ्का न गुणान्वेषणपरा:, तदर्थस्तु पूर्ववत् ॥ ७ ॥ इत्यलं पल्लवितेन ।
भ्रान्तायां चिदि धर्मिणि प्रमितिरूपत्वं प्रकारांशके । भ्रान्तत्वञ्च यथा तयोर्न कणभुच्छास्त्रे विरोधस्तथा ॥ ज्ञाने स्वार्थविनिश्चयेऽपि करणापेक्षप्रमाणात्मता । कार्यापेक्षमात्मता पृथगपेक्षातो विरोधोऽत्र नो ॥ १ ॥ पक्षाः केवलबोधदर्शनसमुत्पत्तौ विरुद्धा इवाभासन्ते नयसूत्रकुण्ठितधियां सूरित्रयोक्तास्त्रयः । तत्सूत्रं किल तन्नयानुगतमेतत्तन्नयापेक्षकमित्थं सूत्रनयानुयोगविदुषां तथ्यास्त इत्यादिभिः ॥ २ ॥ तस्वैस्सम्मतितर्कसत्प्रकरणे रत्नैर्द्वितीये भृते । काण्डे देवगुरूत्तमातुलकृपा- भारेण पूतिं गता || श्रीमद्दर्शन सूरिणा विरचिता गाथार्थसम्बोधिनी । सेयं सद्विवृतिस्तनोतु विदुषां चित्ते मुदान्दोलनम् ॥ ३ ॥ त्रिभिर्विशेषकम् |
अर्हदूधर्मधुरीणमन्त्रिविमलश्रीवस्तुपालादिभिदृग्धैरिन्द्र नरेन्द्रचित्तहर णैरभ्रंलिहैर्मन्दिरैः ॥ नानाचित्रविचित्र भावरसदे तीर्थेऽर्बुदाद्रौ वरे । काण्ड: पूर्त्तिमितश्चतुर्खगगनद्व्यन्दे शुचौ मास्ययम् ॥ ४ ॥ ज्ञानाथनन्त गुणरस्नपयोनिधे ऽर्हन् ?, नानाप्रफुल्लकुसुमैर्विजयादिदेवैः ।
स्वर्गेऽचित ! स्तुत ! मनोहरसूक्तिभिस्त्वत्प्रौढप्रभाव गुरुदर्शन प्राज्ञसूरिः । ॥ ५ ॥
स्वद्दर्शनाश्रयगुणो विजयप्रतिज्ञ -ज्ञानां जगत्सु तिलको विजयात्सभायाम् | उप्त्वा नृहृद्भुवि जिनेश्वरधर्मबीजं, सिक्त्वा जिनोक्तिसुधया शुभ
भावपत्रम् ॥ ६ ॥ वृक्षं सुमेषुविजयं त्रिजगज्जयाया-नन्द- प्रियङ्कर-महोदय- शान्तिपुष्पम् । सम्पाद्य मोक्षसुफलं जनयत्यरं य-स्तत्राऽस्ति नाथ ! जिन ! ते चरणानुभावः || ७ || त्रिभिर्विशेषकम् ||
"Aho Shrutgyanam"