________________
सम्मति० काण्ड २, गा० ४३ पपमतास्पदं कथयन्तीत्याह-प्रमाणेति, स्वसमयेऽपि जैनसिद्धान्तेऽपि, स्याद्वादे अनेका. न्तत्वे च, अनेकान्तधीः कथञ्चिदेकान्तवादत्वकथश्चित्स्याद्वादत्वोभयधर्मप्रकारिका कथचि. देकान्तत्वकथञ्चिदनेकान्तत्वप्रकारिका वा बुद्धिः, प्रमाणनयसङ्गता प्रमाणनयावलम्बने. नानेकान्तत्वादिस्वविषयीभूतार्थे प्रवृत्ता नयस्य यः स्मयोऽभिमानः प्राधान्यमिति यावत् , या च नयस्य तटस्थता प्रमाणस्य प्राधान्ये नयस्य गौणता, ताभ्यामुल्लसन्तो वस्तुनि प्रकारतयाऽवभासमाना ये उपाधयोऽनेकान्तत्वादिधर्मास्तैः किर्मीरिता चित्रिता तादृशाशेषधर्मावगाहिनीति यावत् , एवम्भूता सती, सुगुरुसम्प्रदायक्रमं सुगुरुपरम्पराम्युपगतार्थपरिपार्टी कदाचन न बाधते, प्रत्युतैवंविधाऽनेकान्तधीस्तत्परिपोषिकैव भवति, हि-यतः, उरुधियः धीवैभवशालिनः, समञ्जसपदं समञ्जसस्थानं यथाभ्युपगमे सति सर्व समञ्जसं भवति सम्यगुपपद्यते तत् सदर्शनं वदन्ति, तदेव सदर्शनं यत्र सत्यासत्वादिकं सर्वमपि वस्तुनि सङ्गतिमङ्गति, एवम्भूतश्च स्याद्वाद एवेति स्याद्वाद एव सद्दर्शनमिति भावः ॥ ६ ॥ __. ये च नयानां तत्वमजानन्तः हतधियस्मरिपक्षेषु विरोधमुद्घोषयन्ति तानधिकृत्याहरहस्यमिति, बत आश्चर्ये, आश्चर्य खल्वेतत् , खला दुर्जनाः, हतधियो नष्टसद्बुद्धयो, नयानां सहादितत्तभयानां रहस्यं तात्पर्याथ, किमपि न जानन्ते, अल्पमात्रमपि नैवा. वगच्छन्ति,अत एव विविधबुधपक्षे तत्तन्नानाविधस्वस्ववृद्धसम्प्रदायायाततत्तन्मयापेक्षतत्त. सूत्राभिप्रायम्राजिष्णुपूर्वोक्ततत्तत्प्राज्ञपक्ष, विरोधं भाषन्ते, अमी चन्द्रादित्यप्रकृति. विकृतिव्यत्ययगिराः(रः) चन्द्रस्वभावं वावुद्गिरन्ति रविस्वभावं चन्द्रे प्रलपन्तीत्येवं स्वभावास्स्वीयातिजडत्वस्वभावं प्रकटितवन्तः, अहह खेदे कुत्रापि कस्मिंश्चिदपि विषये, निरातङ्का न गुणान्वेषणपरा-निरर्गला भवभयविनिर्मुक्तास्सन्तो यथातथाप्रलापिनो न गुणान्वेषणपराः किन्तु परदूषणान्वेषणतत्परा एवामीति भावः । यद्वा अमी चन्द्रादित्यप्रकृतिविकृतिव्यत्ययगिरः।
"सलिलमये शशिनि रवेधितयो मूच्छितास्तमोनैशम् ।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥ १॥" इति वराहसंहितावचनाद् जलमये चन्द्रमसि सूर्यकिरणानां प्रवेशादेव तमोनाशकत्वं चन्द्रमसो भवतीत्यवगमात् चन्द्रमसो विकृतित्वं प्रकृतित्वन्तु आदित्यस्येति सिद्धं भवति तत्र चन्द्रमस एव प्रकृतित्वं सूर्यस्यैव विकृतित्वमित्याकारकं व्यत्ययं व्यत्यासं गिरन्तो जना यथा स्वीयमहत्वमेव प्रकटयन्ति एवं तत्तत्वरिपक्षेषु विरोधप्रदर्शनेन स्वीयमनवबोधमात्रं प्रकाशयन्तोऽमी जना अपि अहह कुत्रापि निरातङ्का न गुणान्वेषणपराः। तदर्थस्तु पूर्ववत् । ' अमी चन्द्रादित्यप्रभृतिविकृतिव्यत्ययगिर इति पाठे तु चन्द्रादित्यप्रभृतीनां चन्द्रसूर्यादीनां परस्परविरुद्धस्वभावानां विकृतेः-विकारस्य शीतोष्णस्पर्शादेः व्यत्ययं व्यत्यासं-चन्द्र उष्णस्पर्शवान सूर्यश्च शीतस्पर्शवानित्याकारकं विपरिवर्तनं ये गिरन्ति
"Aho Shrutgyanam"