SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सम्मति. काण्ड २, गा० ४३ २६१ भवति, क्षणभिवा प्रतिक्षणं चैतन्यमन्यदन्यदेव विशिष्टविशिष्टतरं भवति निदानोद्भवः स्वस्वनियतकारणतोऽस्योद्भव इत्याद्या नयविवादपक्षाः बहुतरा यथा श्रुते आगमे श्रुता अभिहिताः, अपेक्षाभेदेन तेषामुपपन्नत्वान्न तेषु कथमेतदघटमानं घटामटतीति विस्मयो भवति यथा, तथा सूरिपक्षत्रये क इव विस्मयो भवतु, न कोऽपि विस्मयः, पक्षत्रयस्यापि नयभेदावलम्बनेनोपपादितत्वात् , नु-वितर्के, क्व रिपक्षत्रयमध्ये कस्मिन् पक्षे, धियां प्रधानपदवी दवीयसी दृश्यते, काका न कुत्रापीत्यर्थः, वरिपक्षत्रयमप्यपेक्षाभेदेनोपपद्यत एवेति भावः ॥ ४॥ ननु विरोधे जाग्रति सति कथं पक्षत्रयमपि समीचीनतयाऽभ्युपगन्तुमर्हमित्यत आहप्रसवेति-यत्र स्वसमये जैनसिद्धान्ते, प्रसह्य हठादेव एकान्तत इति यावत् , सदस. स्वयोः सच्चासत्रयोः, एतच्च नित्यत्वानित्यत्वादीनामप्युपलक्षणम् , विरोधनिर्णायक यत्र सवन्तत्र नासत्वमित्येवमेकाधिकरणावृत्तित्वलक्षणस्य विरोधस्य निर्णायकं निर्णयजनकं, न-नैव किञ्चित् , सत्यासत्यनित्यत्वाऽनित्यत्वाद्योर्विरुद्धयोरप्यपेक्षाभेदेनाविरुद्धत्वात् स्वद्रव्यक्षेत्रकालभावावच्छेदेन सत्त्वस्येव परद्रव्यक्षेत्रकालभावावच्छेदेनासत्त्वस्यापि द्रव्यापेक्षया नित्यत्वस्येव पर्यायापेक्षयाऽनित्यत्वस्यापि चैकस्मिन् वस्तुनि सत्त्वे बाधकप्रमाणाभावात् , कपिसंयोगतदभावयोरिव सत्त्वासत्चनित्यत्वानित्यत्वादीनामव्याप्यवृत्तिस्वेन भिन्नावच्छेदेन स्वाभावसामानाधिकरण्याऽनुभवात् तथा विशेषणविशेष्ययोरपि नियामकं न-इदमस्य विशेषणमिदश्चास्य विशेष्यमित्येवं प्रतिनियतविशेषणविशेष्यभावस्यापि नियामकं न किञ्चित् , यद्यस्य विशेषणं तत्तस्य विशेष्यमपि सम्भवति, यद्यस्य विशेष्यं तत्तस्य विशेषणमपि सम्भवतीत्यर्थः। गुणेति स्यात्पदात्स्यादस्तीत्यादिवाक्यास्यात्पदवलादस्तित्वादेः प्रधानतया नास्तित्वादेगौणतया अपेक्षया स्वस्त्रनिमित्तभेदापे. क्षया मतिर्बोधो भवतीत्यतो भजनोर्जिते अपेक्षाभेदेन विरुद्धयोरप्यविरुद्धतया प्रतिपादके अत्र अस्मिन् स्वसमये जैनसिद्धान्ते किं न सङ्गच्छते-सर्वमेव सङ्गच्छते, स्याद्योगपy केवलज्ञानदर्शनयोः, स्यादेक्यं केवलज्ञानदर्शनयोः, स्यात्क्रमिकत्वं केवलज्ञानदशेनयोः, स्यादपर्यवसितत्वं स्यात्पर्यवसितत्वञ्च तयोरित्येवं स्यात्पदयोजनया जैनसिद्धान्ते सर्वमेव नयभेदावलम्बनेन चतुरस्रमिति भावः ॥५॥ न केवलमन्यविषयेष्वेव स्याद्वादः किन्तु स्याद्वादेऽपि स्याद्वादोऽनेकान्तेऽप्यनेकान्तः स्याद्वादः स्यादेकान्तवादः स्यादनेकान्तवाद इति अनेकान्तः स्यादेकान्तः स्यादनेकान्त इति प्रमाणापेक्षया स्याद्वादत्वमनेकान्तत्वं च नयापेक्षयकान्तवादत्वमेकान्तत्वच, सेयमनेकान्तधी. नयस्य प्राधान्यताटस्थ्याभ्यां विवक्षागोचरतापनकान्तत्वाने कान्तत्वाद्युपाधिसंवलितार्थावगाहिनी सती न गुरुसम्प्रदायक्रमवाधिका भवति, प्रत्युतेत्थमेव सदर्शनं धीधना आता सर्वथो "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy