________________
२६०
सम्मति• काम २, गा० ४३ इत्यभिप्रायवतां पूज्यानां जिनभद्रगणिक्षमाश्रमणानां मतमतिमनोहरमेवेति । सिद्धसेन:केवलज्ञानमेव केवलदर्शनं, न तयोर्भेद इत्यभ्युपगन्ता सम्मतितर्कप्रणेता सिद्धसेनदिवाकर स्तु, भेदोच्छेदोन्मुखं-केवलज्ञानदर्शनयोर्यों भेदस्तदुच्छेदपरं तयोरक्यमेवेत्यभ्युपगमपरं सङ्ग्रहमधिगत:-उक्तसङ्ग्रहमवलम्ब्य केवलज्ञानदर्शनयोरैक्यं स्वीकृतवान् , केवलज्ञानदर्शनयोरक्ये यदेव केवलज्ञानावरणं तदेव केवलदर्शनावरणमिति तत्क्षयलक्षणकारणपटितसामग्र्या एकत्वात्सामग्रीभेदाभावान योगपद्यं तयोः, नापि च केवलदर्शनम्प्रति केवलज्ञानस्य कारणत्वान्तरं गौरवावहं कल्पनीयमिति न तयोः क्रमोऽपि, किन्त्वेकस्याप्येकसामग्रीतो जायमानस्य केवलोपयोगस्याशेषसामान्यविषयकत्वाद्दर्शनत्वमशेषविशेषविषयकत्वाज्ज्ञानत्वमित्युपाधिप्रयुक्तो भेदः, न तु वस्तुगत्येति युक्तम् । तथा च सर्वनयमये स्याद्वादे तत्तन्नयभेदावलम्बनेन तत्तत्पक्षत्रण सूत्रधारास्त्रयोऽपि भूरयः स्याद्वादसेवेकरसिका एवेति तेषां पक्षा युक्त्युपपन्नत्वान्न विषमा इत्युपसंहरति-तस्मादिति स्पष्टम् ।
अत्र-'अपि' इत्यस्य स्थाने 'अमी' इत्यपि पाठः ॥२॥ यथा चोपयोगलक्षणो जीव इति निरुपयोगस्स कदापि न भवतीति चित्सामान्यमुपयोगापराभिधानमनाद्यनन्तमेव तद्रूपं यत्पुरुषपदेनोच्यते तस्यैव च केवलोपयोगो विशेषस्सादिरनन्तश्चेति केवलोपयोगास्मना तदपि चित्साद्यपर्यवसितमिति गीयते, तथा तदेव चित्सामान्यं स्वविशेषस्य केवलोपयोगस्य यौ विशेषौ ज्ञानदर्शनस्वभावौ साकारोपयोगनिराकारोपयोगौ तद्रूपसूक्ष्मांशा. पेक्षया क्रमिकमपि सम्भवति । तथा च केवलोपयोगस्यैव चित्सामान्यविशेषस्य मुख्यतया विवक्षितत्वे तदंशयोस्वान्तरविशेषयोस्साकारानाकारोपयोगयोस्तद्रूपप्रविष्टत्वेन गौणतया विवक्षितत्वे साद्यपर्ययसितत्वं, साकारानाकारोपयोगयोरेव मुख्यतया विवक्षितत्वे उपयोगसामान्यस्य च गौणतयाऽऽश्रयणे क्रमिकत्वमित्येवं व्यवस्था सूरीणामभिमता सूपपादैवे. त्याशयेनाह-चित्सामान्यमिति, केवलाख्ये विशेष पुरुषपदभाक्-पुरि वपुषि शेत इति पुरुषः आत्मा, पुरुषपदं भजते सेवते इति पुरुषपदभाक् , स्याद्वादसिद्धान्ते गुणगुणिनोः कथञ्चिदऽभेदादात्मवाचिपुरुषपदवाच्यं यदेव चित्सामान्यं तदेव तपेण-केवलरूपेण साद्यनन्तं स्फुटं यथा स्यात्तथाऽऽगमे अभिहितम्-गदितम् , इदं-तदेवेदं चित्सामान्य सूक्ष्मैरंशः ज्ञानदर्शनोपयोगलक्षणैः क्रमवदप्युच्यमानं पूज्यैरभिधीयमानं न दुष्टं दुष्टन भवति, अपेक्षाभेदेनानन्तत्वक्रमिकत्वयोरेका सत्वे विरोधाभावात् , तत्-तस्मात्कारणात् , सूरीणामियं मुख्यगौणव्यवस्थाऽभिमतेत्यर्थः ॥३॥ ___यदेत्थं नयभेदावलम्बनेन सूरिपक्षत्रयाभिमतमुख्यगौणव्यवस्था सामञ्जस्यमञ्चति तदा विस्मयोऽपि नात्र करणीयः, आगमे यथाऽन्ये नयविवादपक्षास्तथैतेऽपि सुसङ्गता एवेत्याहतमोपगमेति । यद्यपि निरावृताजन्यसर्वदावस्थितस्वयमाविर्भूतचैतन्यस्वरूप एवात्मा निश्चयतस्तथापि मतिज्ञानाद्यावरणकर्मलक्षणतमसोऽपगमे सति चिजनुः चैतन्यस्य जन्म
"Aho Shrutgyanam"