________________
सम्मति० काण २, गा० ४३
२५९ नयमेदावलम्बनेन केवले स्वस्त्राभ्युपगमविशेषमुपवर्णयतां त्रयाणामपि परिप्रवराणामनेकनयमयजैन सिद्धान्तानतिक्रमण मेवेत्युपदर्शयितुमाह-भेदग्राहीति । यद्यपि चिल्लक्षणसामान्यात्मना केवललक्षणसामान्यात्मना वा ज्ञानदर्शनयोरक्यमेव तथापि तयोर्भेदं ग्रहीतुं शीलं यस्य तं भेदग्राहिणं व्यवहृतिनयं संश्रित:-तमवलम्ब्य तयोर्योगपद्याभ्युपगमे प्रवृत्तो मल्लवादी, एकस्मिन्नेव समये विभिन्नकार्यजनकसामग्योस्सनिपाते युगपदेव कार्यद्वयं भवितुमर्हति, सामग्रीक्रमाभावे विभिन्नस्वरूपकार्ययोः क्रमस्याभ्युपगन्तुमनहत्वाद्विभिन्नस्वभावयोस्तयोरक्याभ्युपगमस्याप्यन्याय्यत्वादिति भेदग्राहिव्यवहुतिनयमाश्रितवतो महनीयमान्यमल्लवादिनो ज्ञानदर्शनयोगपद्याभ्युपगमनं न्याय्यमेवेति हृदयम् । यद्वा 'भेद. ग्राही' इति पाठे स्वेतत्पदं मल्लवादीत्यस्य विशेषणम् , तथा च भेदग्राही मल्लवादी व्यवहतिनयं संश्रित इत्यन्वयः। पूज्याः श्रीमन्तो जिनभद्रगणिक्षमाश्रमणाः प्रायो बाहुल्येन, येषां मतिज्ञानाद्युपयोगानामन्तर्मुहूर्ताद्यवस्थानं सिद्धान्तनिर्णीतमित्थम् -पूर्वमत्याधुपयोगः कश्चिस्कालं स्वस्थितिमनुभूयैवान्ते उपयोगान्तरलक्षणकार्य जनयति, नोत्पत्यनन्तरमेवेति तेषु मतिज्ञानाद्युपयोगेषु क्षणिका एव सर्वे भावा इति पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणकुर्वद्रूपस्वरूपाणां स्वोत्पत्यनन्तरक्षण एव स्वकार्यकारित्वमित्यभ्युपगमप्रवणशुद्धर्जुसूत्रसमाश्रयणाभावेऽपि केवलोपयोगस्थले पूर्वक्षणे ज्ञानोपयोगस्तदनन्तरक्षण एवं दर्शनोपयोगस्तदनन्तरक्षण एवं ज्ञानोपयोग इत्येवमुपयोगधाराया आगमसिद्धाया निर्वाहायात्र तदाश्रयणमित्यावेदयितु. मुक्तं प्राय इति, करणफलयोस्सीम्नि कार्यकारणभावव्यवस्थालक्षणमर्यादायां, शुद्धजुसून-वचनव्यत्यासेन संश्रिता इत्यस्यानुकर्षण सम्बन्धः, ये केवलज्ञानदर्शनयोयौंगपद्यमुरीकुर्वन्ति ये वा तयोरक्यमभ्युपगच्छन्ति तेषामपि मते द्वितीयादिक्षणे उत्पादव्ययध्रौव्यलक्षणसत्त्वोपपत्तये केवलोपयोगस्य केनचिद्रूपेणोत्पादः केनचिद्रूपेण विनाश: केनचिद्रूपेण ध्रौव्यमभ्युपेयमेवेति, तत्र पूर्वपूर्वकेवलपर्यायस्योत्तरोत्तरकेवलपर्यायहेतुत्वाभ्युपगमत एव केवलोपयोगधारोपपत्तिरिति तत्र शुद्ध सूत्रसमाश्रयणेन केवलदर्शनकुर्वद्रूपास्मकेन केवलझानेन केवलज्ञानकुर्वद्रपात्मकस्य केवलदर्शनस्योत्पत्तिस्तथाविधेन केवलदर्शनेन तथाविधस्य केवलज्ञानस्योत्पत्तिरित्येवं केवलोपयोगधारा निराबाधैव, तदपेक्षयाऽपर्यवसितत्वमपि सुसङ्गतम् । यथा च घटविषयकविज्ञानपटविषयकविज्ञानमठविषयकविज्ञानायविच्छिन्नप्रवाहस्य प्रवृत्तिविज्ञानसन्तानत्वं प्रवृत्तिविज्ञानत्वेन घटपटादिविज्ञानानां साजा. त्यमुपादाय निर्वहति, अन्यथा घटविज्ञानत्वादिना घटपटादिविज्ञानानां प्रत्यक्षत्वानुमानस्वादिना वा प्रत्यक्षानुमानादीनां च साजात्याभावात्प्रवृत्तिविज्ञानसन्ततिरपि जाग्रहशा. भाविनी न स्यात् , तथा केवलज्ञानकेवलदर्शनयोः केवलज्ञानत्वेन केवलदर्शनत्वेन वा साजात्याभावेऽपि केवलोपयोगत्वेन साजात्यात्प्रथमं केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलोपयोगाविच्छिन्नप्रवाहलक्षमा केवलोपयोगसन्ततिरनाकुलमवतिष्ठत
"Aho Shrutgyanam"