________________
३०४
सम्मति• काठ , गा० ॥ कारणान्तरानपेक्षत्वे च व्यवस्थिते स्थितेरपि तत्वेन स्वाभाविकत्वं युक्तम् , स्वाचिकत्व स्येव कादाचित्कत्वस्यापि स्वभावनियतत्वात् , तथा च वित्रसापरिणामिनः कारणान्तरानपेक्षमेव स्वभावप्रयुक्तमुत्पादादित्रयमिति सिद्धम् , ऐकत्विकारूयद्वितीयभेदप्रतिपादनायोचराई. माह-'आगासाईयाणं' इत्यादि । “आगासाईयाणं तिह" आकाशादीनां त्रयाणाम् , आकाशास्तिकायधर्मास्तिकायाऽधर्मास्तिकायानां त्रयाणां 'परपञ्चओ' परप्रत्ययः, अब. गाहकगन्त-स्थाजीवपुद्गलात्मकपरद्रव्यनिमित्तो अवगाहनागतिस्थित्युपग्रहकारितयोत्पादः, सोऽपि न नियमेन, किन्तु कथश्चिद्भावेनेत्याह-'णियमा' अत्राकारप्रश्लेषकरणाद. नियमादनेकान्ताद्भवेत् , आकाशादीनां त्रयाणां तत्चदवगाहक-गन्द-स्थाद्रव्यसनिधानतोऽवगाहन-गति--स्थित्युपग्रहकरणक्रियोत्पत्तेरनियमेन स्यात्परप्रत्ययो मुर्तिमदमूर्ति मदवयवद्रव्यद्वयोत्पाद्यत्वादवगाहनादीनां स्यादैकत्तिकः स्यादनकत्विकथेत्यत्राप्यनेकान्त एवं सिद्धिसौधमध्यास्ते। अयम्भावः-न हि तेषु पौरुषेयः प्रयोगो विलसा वा क्रमत इत्यतः परप्रत्ययावुत्पादविनाशौ त्रयाणां, जीवपुद्गलानां तु प्रयोगविसमाभ्यामुत्पादव्ययौ सम्भवतः, धौम्यं तु सर्वेष्वविशिष्टमिति तत्वार्थटीकोक्त वपुद्गलानां प्रयोगविसमाभ्यामुत्पादव्ययौ यथा सम्भवतः, न तथाऽऽकाशादीनां त्रयाणाम् , किन्तु ततोऽन्याशौ तौ तत्र, तथाहिघटाधुत्पादवन्न चाकाशादित्रयेषु प्रायोगिक उत्पादः, न वा वित्रसापरिणतपुद्गलजनिताधेन्द्रधनुराग्रुत्पादवससिका, आकाशादेरुत्पादस्य प्रयोगविलसात्मकमूर्चिमद्व्यानारब्धत्वात् , किन्त्ववगाहकगन्तस्थाजीवपुद्गलात्मकपरनिमित्तस्तत्रोत्पादः, एवमेव विनाशोऽपि परनिमित्तो विज्ञेयः, अत एव खण्डखाये " आकाशादावपि परप्रत्ययोत्पादध्वंसानामागम सिद्धत्वादित्युक्तम्"। अस्य चायमर्थः-यस्समुपरततद्देशावच्छिन्नावगाहकस्वभावे चैत्रे सति तमिमित्तकतद्देशावच्छिन्नतदवगाहनादायित्वस्वभाववत्तयाऽपैति स एवाकाशास्तिकाया, समुपगततदन्यदेशावच्छिन्नावगाहकस्वभावे चैत्रे तनिमित्तकदेशान्तरावच्छिमतदवगाहना. दायित्वस्वभाववत्तयोत्पद्यते, एवं यस्समुपरतगतिव्यापारे चैत्रे तद्गत्युपग्रहव्यापारवचयाऽपैति स एव धर्मास्तिकायो जिगमिषदेवदत्ते तद्गत्युपग्रहदायित्वस्वभावतयोत्पद्यते,अधर्मास्ति कायेऽपि गतिपदस्थले स्थितिपदं संयोज्य तत्वं ज्ञेयम्, इत्येवमवगाहक-गन्त-स्थातव्यनिमित्तोत्पादध्वंसानामागमसिद्धत्वादिति । नन्वाकाशधर्माधर्मास्तिकायानां सर्वदाऽविचलितस्वरूपतयै. वावस्थितत्वेनाविक्रियात्मकानामन्यरूपेग पूर्वमवस्थितस्य तदन्यरूपेण परिणमन मेव नास्ती. ति तेषूत्पाद एव न सम्भवतीति कुतस्तत्रोत्पादानेकान्त इति चेत् , उच्यते, तेवपि स्वाभाविक उत्पाद ऐकत्विकोऽनकत्विकश्च द्विप्रकारोऽप्यस्ति भजनया, यतस्स्याद्वादपक्षे नैवाकाशादि. द्रव्यत्रयं सर्वप्रकारेणाविकार्येव, किन्तु द्रव्यार्थतया नित्यमपि पर्यायार्थत या पूर्वाऽनगाहकावगाहायुपग्रहकारिस्वभावत्वेन विनश्यति, पूर्वावगाहकादिव्यतिरिक्तावगाहकाधवगाहायुपग्रहकारिस्वमावत्वेनोत्पद्यते चेत्यनित्यमित्यतो विकार्यमपि, आकाशादित्रयाणां कथाबिद
"Aho Shrutgyanam'