Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 449
________________ सम्मति वास. ३, गा• ॥ तथाहि-यदुदकद्रव्यं दाहकत्वशक्यभावाइहनरूपेण प्रतिषिद्धं तदपि न सर्वथाऽदहनद्रव्य भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्ततथा कश्चिदऽतथात्वात् , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्गर, इत्यत्राप्यऽनेकान्त एव, समयाऽविरोधेन भजनाप्रवृत्तेरिति दिक ॥ ३०॥ अथ जीवः स्वस्वरूपापेक्षया जीवः कुम्भादिपररूपापेक्षया च न जीवः, एवमजीवोऽपि स्वस्वरूपापेक्षयाऽजीवो जीवात्मकपररूपापेक्षया च नाजीव इति तयोः कश्चिदुभयात्मक स्वादनेकान्तात्मकत्वमित्युपपादनायाह कुंभो ण जीवदवियं, जीवो वि ण होइ कुंभववियं ति। तम्हा दोवि अदवियं, अण्णोण्णविसेसिया होंति ॥ ३१ ॥ कुम्भो न जीवद्रव्यं भवति, जीवोऽपि न भवति कुम्भद्रव्यं, तस्माद् द्वावयद्रव्यमन्योन्यविशेषितौ परस्परल्यावृत्तात्मको भवतः। अयम्भावः-कुम्भाधजीवद्रव्यं जीवाद् व्यावृत्तं एवं जीवद्रव्यमपि कुम्मादेरजीवद्रव्याझ्यावृत्तम् , अन्यथा सर्वस्य सर्वात्मकत्वं स्यादिति प्रतिनियतरूपामावतस्तयोरभावस्स्यात् , खरविषाणवत् , तथा च प्रतिनियतरूपान्यथाऽनुपपश्या तयोः परस्परव्यावृत्तस्वरूपत्वे च स्वरूपापेक्षया जीवो जीवद्रव्यं कुम्मायजीवद्रव्यापेक्षया तु न जीवद्रव्यम्, एवमजीवोऽपि स्वस्वरूपापक्षयाऽजीवद्रव्यं जीवापेक्षया तु नाजीवद्रव्यम् , ततो वस्तुमात्रस्याऽऽपेक्षिकतदतत्स्वभावात्मकत्वात् सर्वमनेकान्तात्मकमिति व्यवस्थितम् । नन्वेवमजीवो जीवापेक्षया नाजीव इति द्वौ नौ प्रकृतं गमयत इति न्यायाद् जीवोऽपि स्यादिति चेत्, मैवम्, अभावपरिणतेः परापेक्षत्वेऽपि भावपरिणते: स्वापेक्षत्वात् स्वस्वरूपापेक्षया जीवः कुम्माद्यपेक्षया न जीवः, स्वस्वरूपापेक्षयाऽजीवोऽपि जीवापेक्षया नाजीव इति व्यवहारोऽपि स्याद्वादव्युत्पत्तिमहिम्ना सूपपाद एवेति सुधीभिर्भावनीयम् । न चायमनेकान्तः कल्पनामात्रनिर्मितवपुष्टुन न वस्तुगतसद्धर्मसाधकः, कल्पनाया निरहशत्वेनाप्रमाणभूतत्वादिति वाच्यम् , निपुणं निरूपणे प्रज्ञावद्भिः सर्ववस्तूनामनेकान्तात्मकतयेवाकलनादिति ॥ ३१ ।। ___ अथोत्पमकेवलज्ञानेन भगवता "उप्पजेइ वा विगमेइ वा धुवेइ वा" इति त्रिपद्या प्रवचनाधारभूतया जीवाजीवात्मकं जगत् द्रव्यार्थिकपर्यायार्थिकनयावपेक्ष्य प्रतिक्षणोत्पादव्ययध्रौन्ययुक्तमाख्यायि, अत एव प्रवचनोपनिषद्वद्येतद्वन्थकृत्सरिवरेण-"उप्पायट्टिइभंगा हंदि दवियलक्षणं एयं" इत्यनेन नयद्वयविषयकप्रमाणार्पणया परस्परानुविद्धोत्पादस्थितिमहालक्षणं वस्तुत्वसमनियतं प्रोक्तम् , अत्रोत्पादः 'उत्पन्ममिदम्' इति धीसाक्षिको धर्म, स किमेकविध एव किंवा प्रकारान्तररूपोऽपीत्याशङ्कायामाह यद्वोत्पादादयो “मृदि घट उत्पनो मृदि घटो विनष्टो मृद्रव्यरूपेण स्थिरश्शेति पीसाक्षिका आधारस्वादिक्दतिरिक्ता अपि, न स्वापक्षणसम्बन्धादिरूपा एव, क्षण एवा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556