Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 444
________________ २९६ सम्मति० काण्ड ३, गा० २८ कान्तस्य स्वस्वरूपेणानेकान्तत्वेऽपि द्वितीयसतमङ्गयपेक्षया एकान्तत्वमित्यनेकान्तता, एवं द्वितीय सप्तभयास्स्वस्वरूपेणैकान्तत्वेऽपि प्रथमानेकान्तसप्तभङ्गयपेक्षयाने कान्तस्व मित्यनेकान्ततेति । अन्यत्सर्वमस्मत्प्रणीत महावीरस्तव कल्पलतिकातोऽवसेयम्, विस्तरमया नेह प्रतन्यते ॥ २७ ॥ नन्वनेकान्तत्वस्य वस्तुत्वव्यापकत्वे षड्जीवनिकायास्तवाते चाधर्म इत्यत्राप्यनेकान्तापतिरस्यादित्याशङ्कामिष्टापच्या परिहर्तुमाह णियमेण सहहतो छक्काए भावओ ण सहहह । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ॥ २८ ॥ , " नियमेण सद्दहंतो " नियमेनावधारणेन पडेवैते जीवाः कायाश्वेत्येवं श्रद्दधानः aare भावओ ण सद्दह " षट्कायान् भावतः परमार्थतो न श्रद्धत्ते, जीवराशेरेकत्वेन तदपेक्षया जीवेष्वेकत्वस्य कायेष्वपि पुद्गलत्वेन रूपेणैकत्वस्य जीवपुद्गलप्रदेशानां परस्पराविनिर्भागवृत्तित्वाजीवप्रदेशेष्वपि कथञ्चिदजीवत्वस्य च निकायेष्वपि प्रत्येकं प्राधान्यवित्रक्षया कथञ्चिदनिका यत्वस्य च सद्भावेऽपि एवं प्रमादयोगेन प्राणव्यपरोपणं हिंसेति हिंसालक्षणोक्तेः प्रमादकृत हिंसा हिंसैवेति तथा स्यादधर्मः, अप्रमादकृतहिंसा त्वहिंसैव, उक्त हिंसालक्षणाऽघटनादिति तया नाधर्मः सूत्रविहितविधिना प्रवृत्तत्वात् इत्युभयधर्मस्य सद्भावेऽपि च तत्तद्धर्मरूपेण यथावस्थितानेकान्तात्मक वस्तुज्ञानाभावान्न भावसम्यग्दृष्टिरसौ, प्रमाण सकल तत्तन्नय गर्भससभङ्गीपथेन कथञ्चित् षट्त्वादिकथञ्चिदषट्त्वादिकथञ्चिन्निकायत्वकथञ्चिदनिकायत्वादिसप्तधर्म प्रकारकै कधर्मिविशेष्य कबोधाभावेन जिनप्रज्ञतषट्त्वापट्त्वादिसप्तधर्मान्वितभावविषयकसमूहालम्बनरुच्यमाबाद, प्रकृतधर्मघटितसत नङ्गजन्य सप्तधर्मवर्यासप्रकारताकाखण्डबोधजनितसमूहालम्बनरुचेरेव भावश्रद्वापदार्थत्वात्, द्रव्यसम्यग्दृष्टिस्तु स्वादेव, अन्यदर्शनासङ्ग्रहनिवृत्त्या जिनवचनरुचिस्वभावस्य संक्षेपसम्यक्त्रस्य तत्र सद्भा वात् । उक्तश्च सङ्क्षेपसम्यक्त्वलक्षणमुत्तराध्ययनाष्टाविंशतितमाध्ययने 44 • " अणभिग्गहियकुदिट्ठी, संखेवरुइत्ति नायव्वो । अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु || २६ || " इति । नियमेन षट्कायान् श्रद्दधद् भावतो न श्रद्धत्ते इति भावतो न सम्यग्दृष्टिरित्यत्रैव हेतूपदर्शनार्थमुत्तरार्द्धमाह-हंदीत्यादि । 'हंदि' इत्युपदर्शने, यतः अपर्यायेषु भङ्गान्तरसंवलन रहितेषु धर्मेषु अपेनिक्रमत्वात् श्रद्धाध्यऽविभक्ताऽसंपूर्णा भवति, द्रव्य श्रद्धापर्यवसन्ना भवतीति यावत् । यद्वा 'हंदि ' इत्युपदर्शने, यतः अपर्यायेषु एकया दिप्रकाररहितेषु षट्सु कार्येषु अपेर्मिनक्रमत्वात् श्रद्धाप्यविभक्ता अविविक्ता संक्षिप्ता भवति, द्रव्य श्रद्धापर्यवसन्ना भवतीति यावत् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556